काशीहिंदुविश्वविद्यालये पेलियोजीनोमिक्स संगोष्ठी 23तः,मानव विकासस्य इतिहासे विमर्शः
जीनोमिक्स अनुसंधानम् एकस्मिन् मंचे कर्तुं कार्यशाला वाराणसी,20 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालये (बीएचयू) तथा मानवशास्त्रीयसर्वेक्षणभारतसंस्थायाः (एएनएसआई) संयुक्ततत्त्वावधानेन २३-२४ मार्च २०२६ दिनयोः
प्रो. बी.वी. शर्मा


जीनोमिक्स अनुसंधानम् एकस्मिन् मंचे कर्तुं कार्यशाला

वाराणसी,20 मार्चमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालये (बीएचयू) तथा मानवशास्त्रीयसर्वेक्षणभारतसंस्थायाः (एएनएसआई) संयुक्ततत्त्वावधानेन २३-२४ मार्च २०२६ दिनयोः द्विदिवसीया संगोष्ठी आयोजिता भविष्यति।

प्राचीनडीएनए, पैलियोएन्थ्रोपोलॉजी, गट् माइक्रोबायोम तथा पॉपुलेशनजीनोमिक्स इत्येषां अनुसन्धानक्षेत्राणां एकत्रीकरणाय अस्याः महत्वपूर्णायाः संगोष्ठ्याः आयोजनं क्रियते, यत्र मानवविकासस्य इतिहासः रहस्यानि च चर्चां प्राप्स्यन्ति।

एन्थ्रोपोलॉजिकल् सर्वे ऑफ् इण्डिया संस्थायाः निदेशकः प्रो. बी.वी. शर्मा उक्तवान् यत् एषा द्विदिवसीया कार्यशाला भारते मानवविकासस्य इतिहासस्य अवगमनाय ऐतिहासिकं पदं भवति। अस्याः कार्यशालायाः मुख्यं लक्ष्यं मानवाध्ययनक्षेत्रेषु राष्ट्रीय-अन्तरराष्ट्रीयस्तरे सहयोगस्य सुदृढीकरणं, अनुसन्धानप्राथमिकतानां निर्धारणं, तथा च एकस्य महतः अन्तरराष्ट्रीयसहकार्यपरियोजनायाः आधारनिर्माणं च अस्ति।

अयं कार्यक्रमः दक्षिणएशियायां मानवस्य प्रागैतिहासिकजनसंख्यायाः च प्रवासः, अनुकूलनम्, जनसांख्यिकीयइतिहासः इत्येषां पुनर्निर्माणे, तथा आधुनिकमानवस्वास्थ्यसम्बद्धानां विकासात्मकसन्दर्भानां अवगमने केन्द्रितः भविष्यति।

अस्यां कार्यशालायां देशस्य प्रमुखाः विशेषज्ञाः सहभागं करिष्यन्ति। पद्मश्री डॉ. के. थंगराज, डॉ. वी.एन. प्रभाकर, प्रो. वसन्तशिन्दे, डॉ. माधुसूदन आर. नन्दिनेणी, डॉ. नवीनगान्धी इत्यादयः अपि भागं ग्रहीष्यन्ति।

विविधेषु सत्रेषु जैविकमानवशास्त्रं, माइक्रोबायल् जीनोमिक्स, प्राचीनडीएनएस्य तकनीकीचुनौतयः, पैलियोएन्थ्रोपोलॉजी तथा पुरातात्त्विकदृष्टिकोणः इत्येषु विषयेषु पैनल् चर्चाः भविष्यन्ति।

कार्यक्रमस्य समन्वयकः जीनविज्ञानी प्रो. ज्ञानेश्वरचौबे अवदत् यत् एषा पहलः पुरातत्त्वं, मानवशास्त्रं आधुनिकजीनोमिक्स च संयोज्य दक्षिणएशियायाः विश्वस्य च मानवविकासस्य रहस्यानि उद्घाटयितुं महत्वपूर्णः प्रयासः अस्ति। अनेन भारतस्य प्राचीनमानवइतिहाससम्बद्धा अवगमना नवक्रान्तिं प्राप्नुयात्।

---------------

हिन्दुस्थान समाचार