Enter your Email Address to subscribe to our newsletters


— सामाजिकमाध्यमैः आयातः संदेशानाम् औघः,बालेषु युवसु च उत्साहः
वाराणसी, 20 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां काश्यां शुक्रवासरे सायंकाले ईदचन्द्रदर्शनमात्रेण मुस्लिमसमाजे उल्लासस्य आनन्दस्य च वातावरणं जातम्। चन्द्रदर्शनानन्तरं सर्वे परस्परं आलिङ्ग्य ईदोत्सवस्य शुभाशंसाः दत्तवन्तः। युवानः बालकाः च चन्द्रदर्शनस्य आनन्दे पटाखान् विस्फोट्य स्वस्य हर्षं व्यक्तवन्तः।
वाराणस्यां शनिवासरे ईदुलफित्रमहापर्व पूर्णश्रद्धया आचरिष्यते। महापर्वस्य पूर्वसन्ध्यायां सामाजिकमाध्यमेषु अपि ईदमुबारकसन्देशानां प्रचुरता जाता। ईदचन्द्रदर्शनसहितं माहे रमजानः अपि समाप्तः अभवत्। अपरत्र चन्द्रदर्शनस्य घोषणया सह एव बाजारस्थानेषु क्रेतॄणां भीडः अपि समागता। नगरस्य दालमण्डी, हड़हा सराय, बेनिया, नूतनमार्गो, मदनपुरा, बजरडीहा, जैतपुरा, आदमपुर, सरैया, अर्दली बाजार, भोजबीर, शिवपुर इत्यादिषु स्थानेषु रात्रेः पर्यन्तं चञ्चलता आसीत्।
बाजारेषु रेडिमेड वस्त्राणि, होजरी, जूता, चप्पल, टोपी, इत्र, कुर्ता पायजामा तथा अन्यानि वस्तूनि क्रेतानि। तस्मात् पूर्वं मध्याह्ने अपराह्णे च नगरस्य ज्ञानवापी सहितेषु विविधेषु मस्जिदेषु इबादतगृहेषु ईदगाहेषु च कडिनसुरक्षायां मध्ये अलविदा नमाज द्वितीयवारं पठिता।
नाटीइमली बुनकर कॉलोनीनिवासिनौ महबूब आशिफ अंसारी च उक्तवन्तौ यत् देशे बहुवर्षानन्तरं रमजानमासे ईदपूर्वं द्विवारं अलविदा नमाज पठिता। रमजानस्य पञ्चमे जुम्मे २० मार्च दिने त्रिंशत्तमः रोजः पूर्णपवित्रतया श्रद्धया च अनुष्ठितः। अपरत्र सायं समये जनाः परिवारैः सह गृहोपरितलेषु स्थित्वा ईदचन्द्रदर्शनाय प्रतीक्षां कृतवन्तः। सायंकाले आकाशे ईदचन्द्रदर्शनमात्रेण जनाः हर्षेण उच्छलितवन्तः।
हिन्दुस्थान समाचार