Enter your Email Address to subscribe to our newsletters

शिमला, 21 मार्चमासः (हि.स.)।
मुख्यमंत्री सुखविन्दर सिंह सुक्खूः अद्य शनिवासरे हिमाचलप्रदेश विधानसभायां वित्तवर्षस्य २०२६–२७ वित्तीयप्रस्तावं प्रस्तोष्यति। मुख्यमंत्री वित्तमन्त्रिरूपेण स्वस्य कार्यकाले निरन्तरं चतुर्थं बजटं प्रस्तोतुं गच्छति। अस्य वर्षस्य वित्तीयप्रस्ताव विशेषो मन्यते, यतः एकतः राज्यं आर्थिक परिस्थितिभिः संघर्षं करोति, अपरतः कर्मचारीणः, निवृत्तिवेतनभोगिनः, महिलाः तथा युवा वर्गः अस्मात् बजटात् राहतां नूतन घोषणाश्च अपेक्षन्ते।
शासकीय सांख्यिक आकडानुसारं हिमाचलप्रदेशस्य अधुना एकलक्षकोटिरूप्यकेभ्यः अधिकं ऋणं वर्तते। तदतिरिक्तं केन्द्र सर्वकारतः लभ्यमानः प्रायः १० सहस्रकोटि रूप्यक परिमितः राजस्व घाट अनुदानं निरुद्धम् अस्ति। अपि च राज्यस्य ऋणग्रहण सीमा सकलस्वदेशि-उत्पादनस्य ५ प्रतिशतात् ह्रासीकृत्य ३ प्रतिशतं कृतम्। एतासु परिस्थितिषु सर्वकारस्य आयवृद्धिः व्यय संतुलनं च प्रति महती चुनौती वर्तते।
एतत् दृष्ट्वा मुख्यमंत्री पूर्वमेव संकेतं दत्तवान् यत् सरकारः वित्तीय अनुशासनं बलयिष्यति तथा नवान् संसाधनान् उपार्जयितुं प्रयतिष्यते। हालसमये सरकारेण परामर्शदातॄणां, मण्डलानां, निगमाणां च अध्यक्ष उपाध्यक्षानां मंत्रिमंडलस्तरः प्रत्याहृतः, तेषां वेतनस्य च षण्मासपर्यन्तं २० प्रतिशतं कटौती कृता। एतत् व्यय न्यूनकरणस्य दिशि कृतः एकः प्रयत्नः मन्यते।
अस्मिन् मध्ये सरकारस्य निर्वाचन प्रतिज्ञासु विषये अपि जनानां दृष्टिः बजटे एव निबद्धा अस्ति। महिलाभ्यः प्रति मासं १५०० रूप्यकदानं, युवानां कृते रोजगार अवसरवृद्धिः, ३०० यूनिट् निःशुल्क विद्युत् प्रदानम् इत्यादीनां योजनानां कार्यान्वयनाय महतां वित्तीय संसाधनानां आवश्यकता भविष्यति। अतः अयं बजटः सरकारस्य कृते संतुलन स्थापनस्य परीक्षा इव मन्यते।
युवा वर्गः शासकीय नियुक्तीनां तथा नूतन जीविकानाम् अवसराणां अपेक्षां करोति। कर्मचारिणः तथा निवृत्तिवेतनभोगिनः च दीर्घकालात् अविलम्बितस्य महङ्गाई भत्तस्य अन्येषां वित्तीय देयानां च भुक्तिं प्रति शिथिलताम् अपेक्षन्ते।
गतवर्षे मुख्यमन्त्रिणा २०२५–२६ वित्तवर्षाय प्रायः ५८ सहस्रकोटि रूप्यक परिमितं वित्तीयप्रस्तावः प्रस्तुतः आसीत्। अनन्तरं अनुपूरक बजटेन तस्मिन् प्रायः ४० सहस्रकोटि रूप्यक वृद्धि कृता। अतः अनुमानं क्रियते यत् अस्य वर्षस्य बजटस्य आकारः अपि विशालः भविष्यति।
---------------
हिन्दुस्थान समाचार