Enter your Email Address to subscribe to our newsletters

अररिया 22 मार्चमासः(हि.स.)।
एसएसबी ५६वीं वाहिन्याः कमाण्डेन्ट् आईपीएस शाश्वत कुमारस्य निर्देशनस्य अधीनं रविवासरे एसएसबी संस्थायाः बाह्यसीमाचौकी आई समवाय तेलियारी इत्यस्याः पक्षतः एकदिवसीयः योगशिविरः आयोजितः, यस्मिन् विद्यालयप्रबन्धने सम्बद्धाः अध्यापकाः बालकाः च सहभागं कृतवन्तः।
प्राथमिकविद्यालये पुरातन्यां जोगबन्याम् आगामिनः अन्ताराष्ट्रिययोगदिवसस्य उपलक्ष्ये बलकार्मिकैः, विद्यालयीय छात्रछात्राभिः तथा ग्रामीणैः सह संयुक्तरूपेण योगाभ्यासकार्यक्रमः आयोजितः, यस्मिन् सर्वे उत्साहपूर्वकं सहभागं कृतवन्तः।
हिन्दुस्थान समाचार