भाजपाध्यक्षो जयंत दासेन दलं त्यक्तुं निर्णयः पुनर्विचारस्य आह्वानम्
गुवाहाटी, 22 मार्चमासः (हि.स.)। असम-भाजपाया: प्रदेशाध्यक्षः दिलीप-सैकियः दलनेतारं जयन्त-कुमार-दासं प्रति स्वस्य दलत्यागनिर्णयस्य पुनर्विचारं कर्तुं विनयपूर्वकम् आह्वानम् अकरोत्। गत-रात्रौ कस्यचित् कार्यक्रमस्य अनन्तरं पत्रकारैः सह संवादं कुर्वन्
BJP भाजपा


गुवाहाटी, 22 मार्चमासः (हि.स.)।

असम-भाजपाया: प्रदेशाध्यक्षः दिलीप-सैकियः दलनेतारं जयन्त-कुमार-दासं प्रति स्वस्य दलत्यागनिर्णयस्य पुनर्विचारं कर्तुं विनयपूर्वकम् आह्वानम् अकरोत्। गत-रात्रौ कस्यचित् कार्यक्रमस्य अनन्तरं पत्रकारैः सह संवादं कुर्वन् सैकियः दासस्य त्यागपत्रस्य विषये प्रतिक्रियां दत्त्वा अवदत् यत् एतेषां निर्णयानां सूक्ष्म-विचारपूर्वकं ग्रहणं करणीयम् अस्ति, तथा च सः जयन्त-कुमार-दासं स्वनिर्णयस्य पुनर्विचारं कर्तुम् आग्रहं कृतवान्।

सः अपि अवदत् यत् दासः विशेषतः दिसपुर-विधानसभा-क्षेत्रे दलस्य कृते महान् परिश्रमं समर्पणं च कृतवान्। सैकियः तस्य योगदानस्य प्रशंसां कृत्वा उक्तवान् यत् तेन क्षेत्रे दलस्य सुदृढीकरणे महत्त्वपूर्णा भूमिका निभिता, तथा तस्य प्रयत्नाः प्रशंसनीयाः सन्ति।

अन्यस्मिन् प्रश्ने उत्तरं दत्त्वा दलाध्यक्षः अवदत् यत् यदा दलस्य राष्ट्रिय-प्रवक्ता तथा पूर्वोत्तर-प्रभारी संबित-पात्रा तथा राष्ट्रीय-सचिवः जयन्त-दासस्य गृहम् गत्वा तम् अवबोधयितुं प्रयत्नं कृतवन्तौ, तदा अन्यस्य कस्यचित् व्यक्तेः तस्य गृहम् गन्तुं किञ्चिदपि औचित्यं न दृश्यते।

हिन्दुस्थान समाचार