Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २२ मार्चमासः (हि.स.)। मुख्यमंत्री भजनलाल-शर्मा रविवासरे मानसरोवर-क्षेत्रे आयोजिते श्री-शिव-महापुराण-कथा तथा महामृत्युञ्जय-रुद्र-महायज्ञे सपत्नीकं सहभागं कृतवान्। तेन शिव-महापुराण-कथायाः श्रवणं कृतम् तथा भगवत: शिवस्य आरार्तिकीं कृत्वा प्रदेशस्य समृद्धये जनसामान्यस्य सुख-समृद्धये च कामना कृता। ततः पूर्वं तेन कथावाचकं पण्डित-श्री-प्रदीप-मिश्रं प्रावारेण आच्छाद्य सम्मानं कृतम्।
शर्मा उक्तवान् यत् अस्माकं सनातन-संस्कृतौ कथाः, उत्सवाः, पर्वाणि च समाजं सशक्तं कुर्वन्ति। नवरात्र-नववर्षयोः पावने अवसरे शिव-महापुराण-कथायाः आयोजनं शिव-शक्त्योः अद्भुत-संगमस्य प्रतीकं वर्तते। दुर्गा-मातु: आराधनया जीवनम् प्रति शक्तेः संचारः भवति, शिव-महापुराण-कथायाः अमृत-वर्षया च मनसि शान्तिः मोक्ष-बोधः च जायते।
मुख्यमन्त्री उक्तवान् यत् भगवान् शिवः मृत्युंजयः अस्ति, तस्य आराधनया मनुष्यः अकाल-मृत्युम् अपि जेतुं शक्नोति। शिव-भक्तेः समं कवचं नास्ति। शिवः साधना-आराधना-उपासना-संयमानां प्रतीकः अस्ति, सः च अस्मान् शिक्षयति यत् माया-मोहात् परं स्थित्वा मानवतायाः संरक्षणं कर्तव्यम्।
सः अपि अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदिन: नेतृत्वे सनातन-संस्कृतेः सुदृढीकरणार्थं बहूनि कार्याणि कृतानि। दीर्घ-कालानन्तरं अयोध्यायां श्री-रामललायाः प्राण-प्रतिष्ठा अभवत्। तथैव काशी-विश्वनाथ-प्राङ्गणस्य विकासः, उज्जयिन्यां महाकाल-परिसरस्य, केदारनाथ-बद्रीनाथ-धाम्नोः च अभूतपूर्वः विकासः सम्पन्नः। अस्माकं शासनं धर्मं संस्कृतिं आस्थां च जनजीवनस्य अभिन्नाङ्गं मन्यमानं देवालयानां तीर्थ-स्थानानां च समुचित-विकासाय कार्यं कुर्वति।
मुख्यमन्त्री उक्तवान् यत् पण्डित-प्रदीप-मिश्रस्य सरल-भाषा, गम्भीर-शास्त्र-ज्ञानं भक्ति-रस-पूर्णा कथा-शैली च युवा-वंशं सनातन-संस्कृत्या सह संयोजयितुं महत्त्वपूर्णां भूमिकां वहति। तस्य श्रीमुखात् प्रवहन्ती कथा जीवनस्य दुःख-भय-सन्तापान् निवारयति, यथा भगवान् शिवः विषं पीत्वा सृष्टेः रक्षणं कृतवान्।
शर्मा उक्तवान् यत् शिव-पुराणं, राम-कथा, गीता, भागवत-कथा च ज्ञान-गङ्गां प्रवाहयन्ति, या जीवनस्य सार्थकत्वं प्रददाति। अस्माकं ऋषयः, मुनयः, सन्त-महात्मानः च जीवनस्य सम्यक् मार्गं दर्शयन्ति। तेषां उपदेशान् आचरणे स्थाप्य वयं स्वजीवनं सफलं कर्तुं शक्नुमः।
हिन्दुस्थान समाचार / अंशु गुप्ता