मध्यप्रदेशस्य मुख्यमंत्री डॉ. यादवोऽद्य परमहंस आश्रम शक्तेशगढस्य भ्रमणे
रीवा, 22 मार्चमासः (हि.स.)। मध्य-प्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अद्य रविवासरे उत्तर-प्रदेशस्य मिर्जापुर-जनपदस्य प्रवासे भविष्यति। सः अत्र परमहंस-आश्रम-शक्तेशगढे आयोजिते कार्यक्रमे सहभागी भविष्यति। निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री ड
सीएम मोहन यादव (फाइल फोटो)


रीवा, 22 मार्चमासः (हि.स.)।

मध्य-प्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अद्य रविवासरे उत्तर-प्रदेशस्य मिर्जापुर-जनपदस्य प्रवासे भविष्यति। सः अत्र परमहंस-आश्रम-शक्तेशगढे आयोजिते कार्यक्रमे सहभागी भविष्यति।

निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री डॉ. यादवः मध्याह्ने रीवा-नगरं आगमिष्यति, ततः हेलीकॉप्टरयानद्वारा अपराह्णे १:४० वादने मिर्जापुर-जनपदस्य परमहंस-आश्रम-शक्तेशगढं प्रति प्रस्थानं करिष्यति।

मुख्यमन्त्री अपराह्णे २:१५ वादने शक्तेशगढस्थिते परमहंस-आश्रमस्य विमानस्थानके उपस्थास्यति। अत्र सः स्थानीय-कार्यक्रमेषु सहभागी भविष्यति।

कार्यक्रमस्य अनन्तरं मुख्यमन्त्री सायं ४:३० वादने शक्तेशगढात् उदग्रयानद्वारा प्रस्थितः भूत्वा ५:०५ वादने रीवा-विमानतले उपगमिष्यति, ततः विमानद्वारा भोपालं प्रति प्रस्थानं करिष्यति।

---------------

हिन्दुस्थान समाचार