Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २२ मार्चमासः (हि.स.)।पश्चिमबंगालस्य मुख्यमन्त्री ममता-बलर्जी लोक-आस्थाया: पवित्र-महापर्वण: चैती-छठ-पूजायाः अवसरे राज्यवासिभ्य: हार्दिक-शुभाशंसाः प्रदत्तवती।
ममता-बलर्जी रविवासरे ‘एक्स’ इति सामाजिक-माध्यमे लिखितवती—“लोक-आस्थाया: पवित्र-महापर्वण: चैती-छठ-पूजायाः अवसरे बंगालस्य सर्वेभ्यः निवासिभ्यः हार्दिक-शुभाशंसाः।”
सा अस्मिन् अवसरे जनानां सुख-समृद्धि-मङ्गलकामनां प्रार्थितवती।
हिन्दुस्थान समाचार / अंशु गुप्ता