Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 22 मार्चमासः (हि.स.)।
श्रीरामकर्मभूमिन्यासस्य सिद्धाश्रमस्य संयोजकः डॉ. अर्जित शाश्वत चौबे रविवासरे उक्तवान् यत् न्यासस्य स्थापने पञ्चवर्षपूर्तौ न्यासेन वर्षपर्यन्तं सांस्कृतिकसामाजिककार्याणि क्रियन्ते। सांस्कृतिकपुनर्जागरणक्षेत्रे श्रीरामकर्मभूमिन्यासेन भागलपुरे, पटनानगरे, बक्सरनगरि, बांका, वाराणस्यां, अयोध्यायां, लखनौ, दिल्लीनगर्यां च विगतपञ्चवर्षेषु समाजस्य संयोजनार्थं शतानि कार्यक्रमाणि आयोजितानि। आरम्भादेव न्यासेन सिद्धाश्रमस्य वैश्विकस्तरे विकासार्थं बहूनि सांस्कृतिकसामाजिककार्याणि कृतानि।
अर्जितेन उक्तं यत् न्यासेन सामाजिककार्यद्वारा कोरोना-काले २०२० तमे वर्षे भागलपुरे, पटनानगरे, बक्सरादिषु अनेकेषु जिल्लेषु कोरोना-निवारणसहायतादलस्य निर्माणं कृतम् तथा लक्षाधिकेभ्यः जनानां शुष्कराशनं वितरितम्। न्यासेन २०२०-२०२१ तयोः वर्षयोः कोरोना-काले लक्षाधिकजनानां निःशुल्कम् एण्टीजन-परीक्षणं कृत्वा जीवनरक्षणं कृतम्। तेन सह षट् मोबाइल-मेडिकल-यूनिट् (एमएमयू) माध्यमेन लक्षाधिकजनानां निःशुल्कं स्वास्थ्यपरीक्षणं उपचारश्च कृतः तथा द्वादश ‘लबाइक’ (मोटरसाइकिल-आधारित-प्रयोगशाला) माध्यमेन लक्षाधिकजनानां निःशुल्कं १२० प्रकारेषु रक्तपरीक्षणं कृतम्।
कोरोना-काले न्यासेन भागलपुरे, बक्सरनगरि, पटनानगरे, वाराणस्यां, दिल्लीनगर्यां च जनसहायतार्थं २५० ऑक्सीजन-कन्सन्ट्रेटर-यन्त्राणि, २०० ऑक्सीजन-सिलिण्डराणि, ५०० पल्स-ऑक्सीमीटर-यन्त्राणि, द्वे वेंटिलेटर-यन्त्रे, लक्षाधिकानि सैनिटाइजर-द्रव्याणि तथा लक्षाधिकानि आर्सेनिकम एल्बम ३० औषधानि निःशुल्कं वितरितानि।
न्यासेन अद्यावधि देशस्य विभिन्नेषु नगरेषु जनजागरणार्थं एकादश विश्व-अभिलेखाः (वर्ल्ड-रेकॉर्ड्) निर्मिताः, तथा मर्यादापुरुषोत्तमस्य श्रीरामस्य सततविकासमूलकेन आदर्शेन जनान् संयोजयितुं प्रयासः कृतः।
अर्जितेन अपि उक्तं यत् २०२० तः अद्यपर्यन्तं न्यासेन विविधानि रचनात्मकानि, सांस्कृतिकानि सामाजिकानि च कार्याणि कृतानि। शीघ्रमेव भागलपुर-प्रमण्डले बांका-जिल्लायां मन्दार-पर्वते संग्रहालयः, वैदिक-सांस्कृतिककेन्द्रं तथा काशीविश्वनाथमन्दिरस्य निर्माणं भविष्यति। तेन सह बक्सरनगरि विश्वस्य विशालतमः पराक्रमी श्रीरामस्य प्रतिमा (माइटी श्रीराम) स्थाप्यते, येन पर्यटनं तीर्थाटनं च प्रोत्साह्यते।
श्रीरामकर्मभूमिन्यासेन अनुशंसितः ३डी लेजर-लाइट्-एण्ड्-साउण्ड्-प्रदर्शनस्य (प्रकाश-ध्वनिप्रदर्शनस्य) शुभारम्भः अपि रामरेखा-घट्टे, बक्सरनगरि, प्रारभ्यते, यत्र रामायणकेन्द्रे शोधसंस्थानम्, वैदिककेन्द्रम्, पुस्तकालयः, संग्रहालयः च शीघ्रमेव स्थापिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार