रीवायाम् अद्यारभ्य शुभारप्स्यते द्विदिवसीया पुस्तकमेला
रीवा, 22 मार्चमासः (हि.स.)।मध्य-प्रदेशस्य रीवा-जनपदे विद्यार्थिनां नूतन-कक्षायां प्रवेशार्थं आवश्यकाः पुस्तकाः तथा अन्य-सामग्री एकस्मिन् एव स्थाने स्पर्धात्मक-मूल्येषु उपलब्धाः भवन्तु इति उद्देश्येन कृष्णा-राजकपूर-ऑडिटोरियम् इत्यत्र अद्य रविवासरात्
पुस्तक मेला (फाइल फोटो)


रीवा, 22 मार्चमासः (हि.स.)।मध्य-प्रदेशस्य रीवा-जनपदे विद्यार्थिनां नूतन-कक्षायां प्रवेशार्थं आवश्यकाः पुस्तकाः तथा अन्य-सामग्री एकस्मिन् एव स्थाने स्पर्धात्मक-मूल्येषु उपलब्धाः भवन्तु इति उद्देश्येन कृष्णा-राजकपूर-ऑडिटोरियम् इत्यत्र अद्य रविवासरात् द्विदिवसीयः जिला-स्तरीयः पुस्तक-मेलः आयोज्यते।

रीवा-जनपदस्य जिलाधिकारी प्रतिभा-पाल नूतन-शैक्षणिक-सत्रस्य 2026-27 प्रारम्भे क्रयणीयानां पुस्तकानां, वर्दी (यूनिफॉर्म), अभ्यास-पुस्तिकानां (कापी), लेखन-सामग्रीणां (स्टेशनरी) च उचित-मूल्येषु सुलभतां सुनिश्चितुं प्रमुख-पुस्तक-विक्रेतॄणां सहभागितां सुनिश्चितुं अपेक्षां व्यक्तवती।

सा पुस्तक-विक्रेतॄन् प्रति आह्वानं कृतवती यत् पाठ्य-पुस्तकेषु १० प्रतिशत-पर्यन्तं तथा लेखन-सामग्रीषु ३०-५० प्रतिशत-पर्यन्तं छूटं ददतु, येन विद्यार्थिनः पुस्तकानि तथा अन्य-सामग्रीं सुलभतया प्राप्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार