Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 22 मार्चमासः (हि.स.)।
राज्यपालः लेफ्टिनेंट् जनरल् गुरमीत् सिंहः उक्तवान् यत् हिमालयस्य पवित्रे उपत्यकायां तथा मातुः गङ्गायाः तीरे स्थितं ऋषिकेशं विश्वस्मिन् आध्यात्मिकचेतनायाः साधनायाश्च प्रमुखं केन्द्रम् अस्ति। अस्याः पवित्रभूमेः योगस्य सन्देशः सम्पूर्णं विश्वं प्रति प्रसारितः भवति। तेन सर्वेभ्यः आह्वानं कृतम् यत् ते उत्तराखण्डं, विशेषतः ऋषिकेशं हरिद्वारं च आगत्य योगस्य आध्यात्मिकानुभूतेः च अनुभवेन सम्बध्यन्ताम्।
राज्यपालः रविवासरे ऋषिकेशे आयोजितस्य अन्ताराष्ट्रिययोगमहोत्सवस्य-२०२६ समापनसमारोहम् सम्बोधितवान्। अस्य आयोजनं पर्यटनविभागेन गढ़वालमण्डलविकासनिगमेन च कृतम्। अस्मिन् महोत्सवे देशविदेशेभ्यः आगताः २५०० अधिकाः योगसाधकाः सहभागं कृतवन्तः।
अस्मिन् अवसरे राज्यपालः उक्तवान् यत् एषः केवलं समापनसमारोहः न, अपि तु नूतनसंकल्पस्य आरम्भः अस्ति, येन योगस्य सन्देशः सम्पूर्णमानवजातिं प्रति प्रसार्यते। सः उक्तवान् यत् योगः शरीरस्य मनसः आत्मनः च ऐक्यस्य साधनम् अस्ति। एषः केवलं अभ्यासः न, अपि तु जीवनयापनस्य एकः मार्गः अस्ति। यदि जीवनस्य आनन्दः शान्तिः आध्यात्मिकसन्तुलनं च प्राप्तव्यम्, तर्हि योगः दैनिकजीवने अवश्यमेव स्वीकरणीयः।
तेन कोविड-१९ महामार्याः उल्लेखः कृत्वा उक्तं यत् वैश्विकसंकटेन अस्मान् स्वास्थ्यस्य प्रति सजगत्वस्य महत्त्वं बोधितम्। योगेन आयुर्वेदेन च वयं स्वस्य शारीरिकमानसिकस्वास्थ्यं सुदृढं कर्तुं शक्नुमः।
राज्यपालः उक्तवान् यत् उत्तराखण्डस्य विशेषा जिम्मेदारी अस्ति यत् सः योगस्य आयुर्वेदस्य च सन्देशं वैश्विकस्तरे प्रसारयेत्। तेन युवानां प्रति विशेषतया आह्वानं कृतम् यत् ते “अमृतपीढी” रूपेण योगं स्वीकुर्वन्तु, तस्य जनजनं प्रति प्रसारणे अग्रणीभूमिकां निर्वहन्तु च। तेन उक्तं यत् प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः दूरदर्शिनि नेतृत्वे योगः अद्य वैश्विकजनआन्दोलनरूपेण अभवत्, एषः भारतस्य ‘सॉफ्ट पावर’ इत्यस्य प्रतीकः अस्ति। अद्य विश्वं योगं स्वसंस्कृतिसीमाभ्यः उपरि उत्थाय स्वीकुर्वति।
राज्यपालः उक्तवान् यत् एषः आयोजनः विशेषतया युवाशक्तेः समर्पणस्य उत्कृष्टप्रबन्धनस्य च प्रतीकः आसीत्। तेन आयोजनस्य सफलतायै सर्वेभ्यः आयोजकेभ्यः स्वयंसेवकेभ्यः च धन्यवादः ज्ञापितः तथा उक्तं यत् योगः केवलं कार्यक्रमरूपेण न स्थापनीयः, अपि तु जीवनस्य अभिन्नः अङ्गः कर्तव्यः। समापनसमारोहे उत्कृष्टकार्यं कृतवन्तः योगाचार्याः राज्यपालेन सम्मानिताः। अस्मिन् अवसरे देवसंस्कृतिविश्वविद्यालयस्य बालकैः योगक्रीडाः अपि प्रदर्शिताः।
अस्मिन् अवसरे कैबिनेट् मन्त्री सुबोध उनियाल, स्वामी अवधेशानन्द गिरी महाराज, गुरुद्वारा श्री हेमकुण्ड साहिब प्रबन्धन ट्रस्टस्य अध्यक्षः नरेंद्रजीत सिंह बिंद्रा, स्वामी प्रेम बाबा, जिलाधिकारी टिहरी नितिका खण्डेलवाल, एमडी जीएमवीएन प्रतीक जैनः, एसएसपी टिहरी आयुष अग्रवाल, नगरपालिका अध्यक्ष मुनिकीरेती नीलम बिजल्वाण, स्वामी आत्मस्वरूपानन्द, स्वामी भारत भूषण योगिनी, उषा माता तथा स्वामी सुनील भगतः इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार