विश्व जल दिवसे 'विश्व शांतौ जलस्य भूमिका' विषये गोष्ठ्याः आयोजनम्
सहरसा, 22 मार्चमासः(हि.स.)। नदीमित्र-इकाई, सहरसा द्वारा विश्वजलदिवसस्य अवसरे २२ मार्चे ‘विश्वशान्तौ जलस्य भूमिका’ इति विषये मत्स्यगन्धास्थिते कला-ग्रामे वेबिनारस्य आयोजनं कृतम्। मुख्यवक्ता रूपेण नदीमित्रः ओम् प्रकाश भारती उक्तवान् यत् संयुक्तराष्ट
ओम प्रकाश भारती


सहरसा, 22 मार्चमासः(हि.स.)।

नदीमित्र-इकाई, सहरसा द्वारा विश्वजलदिवसस्य अवसरे २२ मार्चे ‘विश्वशान्तौ जलस्य भूमिका’ इति विषये मत्स्यगन्धास्थिते कला-ग्रामे वेबिनारस्य आयोजनं कृतम्। मुख्यवक्ता रूपेण नदीमित्रः ओम् प्रकाश भारती उक्तवान् यत् संयुक्तराष्ट्रसंघेन अस्य वर्षस्य विश्वजलदिवसस्य विषयः “शान्तये जलम्” इति निर्धारितः, यः उत्तमजलसुरक्षा, स्थायिकृषिउत्पादनं तथा पर्यावरणीय अखण्डतायाः आवश्यकतां दर्शयति। अस्य उद्देश्यं समाजं प्रति मधुरजलस्य (मिष्ठजलस्य) महत्त्वस्य विषये जागरूकता जनयितुम् अस्ति।

सः अपि उक्तवान् यत् कदाचित् काले कूपेषु, तडागेषु, नालासु, नदीषु च अन्येषु स्रोतःसु च शुद्धं जलं सुलभं आसीत्, किन्तु अधुना स्थिति पूर्णतया परिवर्तिता अस्ति। जलस्य परिमाणतः गुणवत्तया च उपलब्धता गम्भीरसमस्या जाता अस्ति। जलसंकटः अनेककारणेषु आधारितः भौतिकः आर्थिकः वा भवितुम् अर्हति, यथा तीव्रनगरीकरणम्, औद्योगिकीकरणम्, अस्थिरकृषिपद्धतयः, जलवायुपरिवर्तनम्, अनियमितवृष्टिपद्धतयः, जलस्य अत्यधिकोपयोगः, अक्षमजलप्रबन्धनम्, प्रदूषणम्, अपर्याप्ताधारभूतसंरचना, हितधारकाणां मध्ये असम्बद्धता, अतिवृष्टिजन्य अपवाहः, मृदाक्षरणम् तथा अवसादनम्।

जलस्य अभावेन पारिस्थितिकतन्त्रस्य कार्यं बाध्यते, खाद्यसुरक्षा तथा जलसुरक्षा संकटे पततः, अन्ततः च शान्तिः अपि प्रभाविताभवति। विश्वसंसाधनसंस्थानस्य अनुसारं १७ देशाः ‘अत्युच्च’ जलसंकटस्य स्तरं अनुभवन्ति, येन जनानां मध्ये संघर्षः, अशान्तिः च उत्पद्यते।

अद्य विश्वस्य १.६ अरबजनाः पानयोग्यं शुद्धं जलं न प्राप्नुवन्ति। जलसंरक्षणं तथा सर्वेभ्यः शुद्धजलस्य उपलब्धिः अद्यतनस्य प्रमुखपरिस्थितिः अस्ति। केवलं भारते २०० अधिकाः नद्यः लुप्तप्रायाः सन्ति। नीति-आयोगस्य प्रतिवेदनानुसारं भारते ६० कोट्यधिकाः जनाः शुद्धजलाभावस्य दबावं अनुभवति। भारते प्रायः ७० प्रतिशतं जलं प्रदूषितम् अस्ति, यस्य कारणेन जलगुणवत्तायाः वैश्विकसूचकाङ्के भारतस्य स्थानं १२०तमम् अस्ति।

भारतः अपि एतेभ्यः समस्याभ्यः अप्रभावितः नास्ति। भारतस्य प्रायः सर्वेषु राज्येषु प्रमुखेषु नगरेषु च भूजलस्तरः अवनमति। भारते जलस्य उपलब्धता पूर्वमेव अल्पा अस्ति, यतः एतत् जलसंकटग्रस्तश्रेण्यां स्थापनीयम्। अनुमानतः एषा उपलब्धता २०२५ पर्यन्तं १३४१ घनमीटरपर्यन्तं तथा २०५० पर्यन्तं ११४० घनमीटरपर्यन्तं न्यूनतां गमिष्यति।

हिन्दुस्थान समाचार