Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, २२ मार्चमास: (हि.स.)। मां-गौ-गंगा-धाम-सेवा-न्यासस्य अध्यक्षः महंत: निर्मलदासः महाराजः उक्तवान् यत् माता-भगवती-आराधनया वयं सर्वे एषु लोकेषु सुखानुभवं विन्दामः। इच्छापूर्णा माता-भगवती जगतः अधिष्ठात्री देवी अस्ति। भक्तानां सूक्ष्माराधनया एव सा प्रसन्ना भूत्वा तेभ्य: मनोवाञ्छितं फलं प्रयच्छति।
श्री-तारकेश्वरधाम्नि चतुर्थ-नवरात्रौ श्रद्धालुभ्यः माता-आराधनायाः महत्वं व्यक्तयन् महंत: निर्मलदासः महाराजः उक्तवान् यत् मातु: उपासनया व्यक्ति: तपः, त्यागः, संयमः च सदाचारश्च वृद्धिं प्राप्नोति।जीवने अपि कठिनतमे समये व्यक्ति: स्वपथात् न विचलति। अतः माता भगवती परमकल्याणकरीणि अस्ति। मातुः शक्तेः प्रभावेण जीवने सर्वे विपदः दूरं भवति। वास्तवतः नवरात्रे: समयः देवीशक्तेः सम्मानं भक्तिं च समर्प्य आशीर्वादं प्राप्नोति इत्यस्मिन् शुभावसरै। मातुः सर्वस्वरूपाणां सात्विकमनसैव आराधनया व्यक्ते: जीवनं धनधान्यैः, सुखसमृद्ध्या, यशवैभवेन च परिपूर्णं भवति।
महंत: निर्मलदासः उक्तवान् यत् नवरात्रौ प्रत्येकं व्यक्ति: यदि मातु: कृपापात्रं भवितुम् इच्छति तर्हि मांशतास्वरूप-बालिकानां पूजनं अवश्यम् कर्तव्यम्। कन्यापूजनेन देवी भगवती अतीव प्रसन्ना भूत्वा साधकाय अमोघफलं प्रयच्छति। अस्मिन् अवसरे आचार्यः रामचन्द्रः, आचार्यः प्रकाश उप्रेती, पण्डितः सचिन शर्मा, पण्डितः योगेन्द्र मिश्रा, पण्डितः अजीत त्रिपाठी च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता