Enter your Email Address to subscribe to our newsletters

कराैली, 22 मार्चमासः (हि.स.)।
चैत्रनवरात्रेः पावनावसरे प्रसिद्धे कैलादेवी-लख्खी-मेलापके श्रद्धालूनां जनसागरः उमग्नः अस्ति। देशस्य सर्वतः आगताः लक्षशः भक्ताः शक्तिधामं प्राप्य माता कैलादेव्याः दर्शनं कुर्वन्ति तथा सुखसमृद्ध्यर्थं प्रार्थनां कुर्वन्तः प्रणामं(नमस्कारं) कुर्वन्ति। सर्वस्मिन् क्षेत्रे भक्तेः आस्थायाश्च वातावरणं दृश्यते।
रविवासरत्वात् प्रातःकालादेव बहुसंख्यकाः श्रद्धालवः मन्दिरं प्रति आगन्तुं प्रारब्धवन्तः। दिवसभरं मन्दिरपरिसरे दीर्घाः पङ्क्तयः आसन् तथा रात्रेः यावत् दर्शनक्रमः अनवरतः अभवत्। श्रद्धालवः मातुः ‘जात’ कृत्वा स्वमनोकामनाः याचन्ते, येन मेले धार्मिकमहत्त्वम् अधिकं वर्धितम्।
मेलायां आगच्छतां श्रद्धालूनां सुविधार्थं स्थले स्थले भण्डाराः आयोजिताः सन्ति, यत्र निःशुल्कभोजनस्य व्यवस्था कृता अस्ति। अनेन दूरदूरात् आगतानां यात्रिकाणां महान् उपकारः जातः।
अस्मिन् वर्षे मेलायाः सुरक्षाव्यवस्था विशेषतया सुदृढा कृता अस्ति। प्रथमवारं एटीएस-दलेन सुरक्षायाः दायित्वं स्वीकृतम्। मेलायां त्रयस्त्रिंशत् ईआरटी-कमाण्डोः नियुक्ताः सन्ति, ये चतुर्विंशतिघण्टानि निरीक्षणं कुर्वन्ति। एते कमाण्डवः भरतपुरात् आहूताः सन्ति। कैलादेवीसमितेः प्रबन्धकः विवेक द्विवेदी उक्तवान् यत् श्रद्धालूनां सुरक्षा सर्वोच्चप्राथमिकता अस्ति।
यातायातव्यवस्थां सुव्यवस्थितां कर्तुं रोडवेज-संस्थया विशेषाः उपायाः कृताः। त्रिशताधिकाः बसयानानि सञ्चालितानि सन्ति तथा प्रत्येकं पञ्चदशमिनिटेषु बससेवा उपलभ्यते। यात्रिकेभ्यः भाडे पञ्चाशत् प्रतिशतपर्यन्तं छूटः अपि दत्ता अस्ति। हिंडौनात् कैलादेवीपर्यन्तं बसभाडं केवलं ४० रूप्यकाणि निर्धारितम्, येन श्रद्धालूनां महती सुविधा जाता।
भीडनियन्त्रणार्थं नव अस्थायी बसस्थानकानि अपि निर्मितानि सन्ति। प्रशासनद्वारा कृतैः एतैः व्यापकव्यवस्थाभिः श्रद्धालवः सुरक्षितरूपेण सुव्यवस्थिततया च मेलं प्राप्य दर्शनं कुर्वन्ति। लक्षशः भक्ताः मातुः चरणयोः शिरः नत्वा स्वमनोकामनाः याचन्ते।
---------------
हिन्दुस्थान समाचार