Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 23 मार्चमासः (हि.स.)। भारतीयजनतादलस्य महिला नेता असमसरकारस्य च मन्त्रिमण्डलस्य मन्त्री हाफलोंगक्षेत्रस्य वर्तमानविधायिका नन्दिता गार्लोसा गतायां रात्रौ भारतीयराष्ट्रियकाङ्ग्रेस् इत्यस्मिन् दले सम्मिलिता अभवत्। एषा सम्मिलनप्रक्रिया काङ्ग्रेस् दलस्य हाफलोंग-उम्मीदवारः निर्मल लाङ्थासा तथा असमप्रदेशकाङ्ग्रेस् समितेः महासचिवस्य उपस्थितौ सम्पन्ना।
मन्यते यत् अद्य नन्दिता हाफलोंगक्षेत्रात् काङ्ग्रेस् दलस्य प्रत्याशिनीरूपेण नामनिर्देशनपत्रं समर्पयिष्यति। नन्दिता गार्लोसा एतत् निर्णयं तस्मिन् समये कृतवती यदा भाजपा एतस्मिन् निर्वाचने तां न प्रत्याययत्, तस्याः स्थाने नूतनमुखं रूपाली लाङ्थासा इत्यस्याः चयनं कृतम्। तस्याः सम्मिलनानन्तरं अपेक्ष्यते यत् सा निर्मल लाङ्थासा इत्यस्मात् प्रत्याशित्वं स्वहस्ते स्वीकरिष्यति।
भाजपा-पक्षस्य प्रत्याशिसूच्यां गार्लोसायाः नाम्नः अभावः बहुचर्चितः अभवत्, विशेषतः एतत् दृष्ट्वा यत् सा वर्तमाने असममन्त्रिमण्डले मन्त्रिपदे आसीत्। अस्मिन् वर्षे बहवः वर्तमानविधायिनः अपि टिकटं न प्राप्तवन्तः, यथा मुख्यमन्त्रिणा अपि प्रतिपादितम्; तेन उक्तं यत् दलं निर्वाचनव्यवस्थायां नूतनमुखेभ्यः अवसरं दत्तवान्।
काङ्ग्रेस् दलेन गार्लोसायाः सम्मिलनं हाफलोंगक्षेत्रे दलस्य कृते महत् प्रोत्साहनं तथा निर्वाचनपूर्वं तस्य संभावनानां सुदृढीकरणं इति वर्णितम्।
अपरतः असमप्रदेशस्य भाजपा-अध्यक्षः तथा सांसदः दिलीप सैकिया नन्दिताया विषये स्वां प्रतिक्रिया व्यक्तवान्। तेन उक्तं यत् यदि नन्दिता गार्लोसा दलं न त्यजेत् तर्हि तत् तस्याः परिपक्वनिर्णयः अभविष्यत्; यदि सा भाजपा-दलं त्यक्तवती अस्ति तर्हि तत् तस्याः व्यक्तिगतः निर्णयः अस्ति।
दलस्य टिकटं न प्राप्तवन्तः सन्तः भाजपा-दलस्य बहवः नेतारः अपि त्यागपत्राणि दत्तवन्तः। तथापि मुख्यमन्त्रिणः वक्तव्यानुसारं दलस्य अन्तः विरोधस्थितिः तादृशी न आसीत्, यथा स्थितिः काङ्ग्रेस्-दले दृष्टा।
हिन्दुस्थान समाचार