Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २३ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः संघ-लोक-सेवा-आयोगस्य (यूपीएससी) परीक्षायां चयनितैः, येन सम्पूर्णदेशे प्रदेशस्य नाम उज्ज्वलितम्, तादृशैः ६१ अभ्यर्थिभिः सह अद्य (सोमवासरे) संवादं करिष्यति तथा तेषां सम्मानं अपि करिष्यति। चयनिताः अभ्यर्थिनः स्वस्य संघर्ष-यात्रां सफलतायाः कथां च मुख्यमन्त्रिणा सह सहभागं करिष्यन्ति।
उच्चशिक्षा-विभागेन भोपालस्थिते कुशाभाऊ-ठाकरे-अन्ताराष्ट्रिय-सभागारे “सफलतायाः मन्त्राः” इति कार्यक्रमः आयोज्यते। अस्मिन् कार्यक्रमे मुख्यमन्त्री डॉ.मोहन-यादवः विभागेन निर्मितायाः “प्रतिभाओं का परचम” नाम्नः पुस्तकस्य तथा तस्याः डिजिटल-संस्करणस्य विमोचनं करिष्यति। कार्यक्रमे उच्चशिक्षामन्त्री इन्दर-सिंह-परमारः, अपर-मुख्यसचिवः अनुपम-राजन् च उपस्थितौ भविष्यतः।
जनसम्पर्क-अधिकारी राजेश-दाहिमः अवदत् यत् संघ-लोक-सेवा-आयोगस्य परीक्षायां प्रदेशस्य ६१ प्रतिभाशालिनः छात्राः चयनिताः सन्ति, ये न केवलं मध्यप्रदेशस्य, अपि तु सम्पूर्णदेशस्य नाम उज्ज्वलितवन्तः। एतासां सफलतानां पृष्ठभूमौ केवलं प्रतिभा नास्ति, अपितु कठोर-परिश्रमः, दृढ-संकल्पः तथा प्रतिकूल-परिस्थितिषु संघर्षस्य साहसः अपि निहितः अस्ति। बहवः छात्राः सामान्य-परिवारेभ्यः आगताः सन्ति- केषाञ्चित् मातापितरौ कृषकौ स्तः, केषाञ्चित् वणिजौ वा आङ्गनवाडी-कार्यकर्तृ-कुटुम्बेभ्यः आगताः। केचन अभ्यर्थिनः शासकीय-विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु च अध्ययनं कृत्वा एतत् स्थानं प्राप्तवन्तः।
यूपीएससी-परीक्षायां चयने पुत्र्यः अपि पृष्ठे न सन्ति
अस्याः परीक्षायाः सफलतायां पुत्र्यः अपि पृष्ठे न सन्ति। प्रदेशतः चयनितेषु ६१ अभ्यर्थिषु बह्व्यः पुत्र्यः अपि सन्ति, याभिः उत्कृष्ट-स्थानानि प्राप्तानि। तासु इन्दौर-निवासिनी अनन्या-शर्मा देशे १३तमं स्थानं प्राप्तवती, खण्डवा-निवासिनी रूपल-जयसवाल ४३तमं स्थानं, इन्दौर-निवासिनी दीक्षा-चौरसिया ४४तमं, रीवा-निवासिनी समीक्षा-द्विवेदी ५६तमं, नरसिंहपुर-निवासिनी दीक्षा-पाटकर ८८तमं स्थानं प्राप्तवन्त्यः।
देशस्तरे उत्कृष्ट-स्थानं प्राप्तवन्तः अभ्यर्थिनः
ईशान-भटनागरः ५तमं स्थानं, पक्षाल-सेक्रेटरी ८तमं, अनन्या-शर्मा १३तमं, चितवन-जैनः १७तमं, रूपल-जयसवालः ४३तमं, दीक्षा-चौरसिया ४४तमं, समीक्षा-द्विवेदी ५६तमं, अनिमेष-जैनः ६३तमं, विश्वजीत-गुप्तः ६७तमं, दीक्षा-पाटकरः ८८तमं स्थानं प्राप्तवन्तः।
दृष्टिहीनतां शक्तिं कृत्वा अक्षत-बल्दवा १७३तमं स्थानं प्राप्तवान्
इन्दौर-निवासी अक्षत-बल्दवा दर्शितवान् यत् शारीरिक-सीमाः सफलतायाः मार्गं न निरोद्धुं शक्नुवन्ति। जन्मानन्तरं ‘रेटिनोब्लास्टोमा’ इति रोगात् दृष्टिहीनः सन् अपि सः न पराजितः। हिन्दी-माध्यमेन शासकीय-विद्यालये अध्ययनं कृत्वा, ‘कॉमन-लॉ-एडमिशन-टेस्ट्’ उत्तीर्ण्य बेंगलुरुस्थिते नेशनल-लॉ-स्कूल-ऑफ-इण्डिया-यूनिवर्सिटी इत्यत्र प्रवेशं प्राप्तवान्। विधि-अध्ययन-काले एव सः सिविल-सेवायाः लक्ष्यं निश्चितवान्, अल्पकालेन एव १७३तमं स्थानं प्राप्तवान्। तस्य मतम्- “सत्यदृष्टिः न नेत्राभ्यां, किन्तु मनसा भवति; यदि लक्ष्यं स्पष्टं, प्रयासः निरन्तरः च, तर्हि काचित् अपि बाधा महती न भवति।”
कृषक-परिवारस्य दुहिता प्राची-चौहान २६०तमं स्थानं प्राप्तवती
विदिशा-जनपदस्य जोहद-ग्रामे निवसन्ती प्राची-चौहान चतुर्थ-प्रयासे २६०तमं स्थानं प्राप्तवती। कृषक-पितुः गृहिणी-मातुः दुहिता च सा अभावेषु अपि लक्ष्यं न त्यक्तवती। गणित-विषये स्नातकं कृत्वा निरन्तरं प्रयासं कृतवती। सा वदति- “प्रत्येकम् असफलता किञ्चित् नूतनं शिक्षयति; धैर्येण सत्प्रयासः कदापि व्यर्थः न भवति।”
वणिक्पितुः आङ्गनवाडी-कार्यकर्तृ-मातुः दुहिता मोहसिना-बानो ६४८तमं स्थानं प्राप्तवती
टीकमगढ़-निवासिनी मोहसिना-बानो ६४८तमं स्थानं प्राप्तवती। तस्याः पिता मोहम्मद-इकरामः वणिजः, माता शाहजहाँ-बेगम आङ्गनवाडी-कार्यकर्त्री। सा मन्यते यत् प्रारम्भिक-तथा मुख्य-परीक्षयोः गम्भीर-अवगाहनं तथा विश्लेषणम् एव सफलतायाः मूलम्। सा वदति- “अध्ययनं केवलं ज्ञानपर्यन्तं मा स्थापयत, किन्तु रणनीत्याः सह संयोज्य धैर्यं धारयत।”
शासकीय-महाविद्यालयात् अध्ययनं कृत्वा प्राची-जैन ७१४तमं स्थानं प्राप्तवती
नरसिंहपुर-निवासिनी प्राची-जैन तृतीय-प्रयासे ७१४तमं स्थानं प्राप्तवती। सा सरोजिनी-नायडू-शासकीय-कन्या-स्नातकोत्तर-महाविद्यालयात् वाणिज्य-विषये स्नातकं कृतवती। तस्याः पिता प्रमोद-जैनः विद्युत्कर्मी, माता बबीता-जैन गृहिणी। सा वदति- “एषा सफलता निरन्तर-प्रयासस्य, अनुशासनस्य, सकारात्मक-चिन्तनस्य च फलम् अस्ति।”
कृषक-परिवारस्य अंकुश-पाटीदारः ७८०तमं स्थानं प्राप्तवान्
मन्दसौर-जनपदस्य नारिया-बुजुर्ग-ग्रामस्य निवासी अंकुश-पाटीदारः चतुर्थ-प्रयासे ७८०तमं स्थानं प्राप्तवान्। कृषक-कुटुम्बात् आगत्य सः शासकीय-विद्यालयेषु अध्ययनं कृत्वा एतत् स्थानं प्राप्तवान्। तस्य यात्रायां भगिन्यः तस्य मनोबलं वर्धितवन्त्यः। सः वदति- “संघर्षः अस्याः परीक्षायाः अंशः अस्ति, किन्तु दृढ-संकल्पेन सफलता निश्चिता।”
सः अवदत्- “मम प्रारम्भिक-शिक्षा ग्रामे एव अभवत्। अनन्तरं शामगढ़-तहसीलतः उच्चतर-माध्यमिक-परीक्षाम् उत्तीर्णवान्, ततः इन्दौरस्थिते देवी-अहिल्या-विश्वविद्यालये स्नातकं कृतवान्। सिविल-सेवायाः यात्रा अपि तत्रैव आरब्धा। एषः मार्गः सरलः न आसीत्; चत्वारः प्रयासाः कृताः, ययोः द्वौ समयौ साक्षात्कार-पर्यन्तं प्राप्तवान्। अस्मिन् दीर्घे पथे मम भगिन्यः एव प्रेरणास्त्रोतांसि अभवन्।”
६१ अभ्यर्थिषु १५ अभ्यर्थिनः शासकीय-संस्थाभ्यः
चयनितेषु ६१ अभ्यर्थिषु १५ जनाः शासकीय-महाविद्यालयेषु विश्वविद्यालयेषु च अध्ययनं कृत्वा सफलतां प्राप्तवन्तः। एतत् प्रदेशस्य शासकीय-शैक्षणिक-संस्थानां गुणवत्तां तथा छात्राणां प्रतिभां स्पष्टयति। एतेषां सर्वेषां कथाः एतत् सन्देशं ददति- परिस्थितयः यथाकथञ्चन सन्तु, यदि लक्ष्यं स्पष्टं, प्रयासः निरन्तरः, आत्मविश्वासः दृढः च, तर्हि सफलता अवश्यमेव लभ्यते। मध्यप्रदेशस्य एते यूनाः न केवलं स्वस्य उपलब्धिभिः प्रदेशस्य गौरवं वर्धयन्ति, अपि तु अग्रिम-वंशानां कृते प्रेरणास्रोतांसि अपि भवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता