Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ मार्चमासः (हि.स.)। दिल्लीविधानसभायाः विवरणसत्रे अद्य मुख्यमन्त्रिणा सह वित्तमन्त्री रेखा गुप्ता सदने आर्थिकसर्वेक्षणं (२०२५-२६) प्रस्तुतवती।
दिल्लीसर्वकारस्य आर्थिकसर्वेक्षणं २०२५-२६ अनुसारं वर्तमानमूल्येषु दिल्लीराज्यस्य सकलराज्यगृह-उत्पादः (जीएसडीपी) १३,२७,०५५ कोटिरूप्यकाणि पर्यन्तं गन्तुं सम्भाव्यते, यत् २०२४–२५ इत्यस्य तुलनायां ९.४२ प्रतिशतवृद्धिं दर्शयति। अग्रिमानुमानेन २०२५–२६ वर्षे दिल्लीराज्यस्य प्रति-व्यक्ति-आयः वर्तमानमूल्येषु ५,३१,६१० रूप्यकाणि भविष्यति इति अनुमानम्, यत् २०२४–२५ तुलनायां ७.९२ प्रतिशतवृद्धिं सूचयति। २०२५–२६ वर्षे दिल्लीराज्यस्य प्रति-व्यक्ति-आयः राष्ट्रियस्तरस्य तुलनायां प्रायः २.५ गुण-अधिका भविष्यति इति अपि अनुमानितम्।
दिल्लीराज्यस्य अर्थव्यवस्थायां सेवाक्षेत्रस्य प्रभुत्वम् अस्ति, यस्य सकलराज्यमूल्यवर्धने (जीएसवीए) २०२५–२६ वर्षे ८६.३२ प्रतिशतं योगदानम् अस्ति। तदनन्तरं द्वितीयकक्षेत्रस्य (१२.८८ प्रतिशतं) तथा प्राथमिकक्षेत्रस्य (०.८० प्रतिशतं) योगदानम् अस्ति। दिल्ली निरन्तरं राजस्वाधिक्यं धारयति। वित्तविवरणानुमाने २०२५–२६ कृते अनुमानितं राजस्वाधिक्यं ९६६१.३१ कोटिरूप्यकाणि अस्ति, यत् सकलराज्यगृह-उत्पादस्य ०.७३ प्रतिशतं भवति।
२०२५–२६ कृते करसङ्ग्रहे गतवर्षस्य तुलनायां १५.५४ प्रतिशतवृद्धिः कल्पिता। २०२५–२६ वर्षस्य वित्तविवरणं १,००,००० कोटिरूप्यकाणि आसीत्, यस्मात् ५९,३०० कोटिरूप्यकाणि दिल्लीसर्वकारस्य योजनानां/कार्यक्रमाणां/परियोजनानां कृते विनियोजितानि, यत् २०२४–२५ (वित्तानुमानम्) ३९,००० कोटिरूप्यकाणां तुलनायां २०,३०० कोटिरूप्यकाणि अधिकानि आसन्।
२०२५–२६ वर्षे परिवहनक्षेत्राय वित्तविवरणविनियोगस्य प्रायः २० प्रतिशतं भागः दत्तः। ततः अनन्तरं सामाजिकसुरक्षाकल्याणक्षेत्रम् (१७ प्रतिशतं), जलापूर्तिः स्वच्छता च (१५ प्रतिशतं), शिक्षा (१३ प्रतिशतं) तथा स्वास्थ्यं (१२ प्रतिशतं) स्थानानि प्राप्नुवन्ति।
दिल्लीमध्ये औद्योगिकश्रमिकाणां वार्षिकः औसत-उपभोक्तामूल्यसूचकाङ्कः २०२४ वर्षे १३२.५ आसीत्, सः २०२५ वर्षे १३९.४ अभवत्, यः ६.९ अङ्कानां (४.९ प्रतिशतं) वृद्धिं दर्शयति।
आर्थिकसर्वेक्षणस्य प्रमुखाः विशेषताः :
सामाजिकसुरक्षा : ६०–६९ वर्षवयस्केभ्यः जनेभ्यः प्रतिमासं २००० रूप्यकाणि, ७० वर्षाधिकेभ्यः २५०० रूप्यकाणि च प्रदीयन्ते। मार्चमास २०२६ पर्यन्तं ४.४० लक्षं वरिष्ठनागरिकाः लाभान्विताः भविष्यन्ति।
विद्युत्पूर्ति : विद्युत् २०१५–१६ वर्षे ५८४६ मेगावाट् आसीत्, सः २०२५–२६ वर्षे ८४४२ मेगावाट् पर्यन्तं वर्धितः। जनवरीमास २०२६ पर्यन्तं नवीकरणीय-ऊर्जायाः कुलस्थापितक्षमता ५०९ मेगावाट् अस्ति।
परिवहनक्षेत्रम् : दिल्लीमध्ये विद्युत्बसयानानां संख्या अप्रैलमासे २०२५ मध्ये २१५० आसीत्, सा मार्चमासे २०२६ मध्ये ४३३८ अभवत्। मार्चमासे २०२६ मध्ये डीटीसी-परिवहनविभागयोः समीपे ६१०० बसयानानां संस्थात्रम् आसीत्।
जलापूर्ति : दिल्लीसर्वकारेण मीटरयुक्तजलसंयोजनयुक्तेभ्यः गृहेभ्यः २० किलोलीटरपर्यन्तं निःशुल्कजलम् प्रदत्तम्। अद्यावधि १८.९१ लक्षम् उपभोक्तारः लाभान्विताः। प्रायः ९३.५ प्रतिशतगृहेषु नलिकया जलापूर्तिः उपलब्धा।
शिक्षाक्षेत्रम् : दिल्लीमध्ये १२७० सर्वकारी तथा सर्वकारीसहाय्यप्राप्तविद्यालयाः सन्ति। २०२४–२५ वर्षे तेषु नामाङ्कनस्य भागः ३९.७५ प्रतिशतम् आसीत्। दशमकक्षायां उत्तीर्णप्रतिशतं ९७.७, द्वादशकक्षायां ९८.३ प्रतिशतं आसीत्। २०२५-२६ वर्षे ७५ ‘सीएमश्री’ विद्यालयाः स्थापिताः।
स्वास्थ्यक्षेत्रम् : प्रति १००० जनानां शय्यासनानां संख्या २०१५–१६ मध्ये २.७३ आसीत्, सा २०२५–२६ मध्ये २.८४ अभवत्। सर्वकारीचिकित्सालयेषु शय्यानां संख्या १२,४६४ (२०२०) तः वर्धित्वा १५,६५९ (दिसम्बरमास: २०२५) अभवत्।
सार्वजनिकवितरणप्रणाली : १९५३ उचितमूल्य-आपणानां माध्यमेन १७.१८ लक्षं डिजिटलखाद्यसुरक्षापत्रकधारकाणां द्वारा ७२.२१ लक्षं लाभार्थिभ्यः खाद्यान्नं वितरितम्। अन्त्योदय-अन्नयोजनाधारकान् प्रतिमासं ३५ किलोग्राम खाद्यान्नं, पीएचएच लाभार्थिभ्यः ५ किलोग्राम अन्नं निःशुल्कं प्रदीयते। अतिरिक्ततया दिल्लीसर्वकारेण अन्त्योदयपत्रधारकेभ्यः १ किलोग्राम शर्करा अपि निःशुल्कं प्रदीयते।
हिन्दुस्थान समाचार / अंशु गुप्ता