दिल्लीविश्वविद्यालये विरोधप्रदर्शनं, धरनायै यात्रा मैं च पूर्व लिखित सूचना अनुमतिश्च अनिवार्ये
नवदिल्ली, 23 मार्चमासः (हि.स.)। दिल्लीविश्वविद्यालयेन परिसरस्य अन्तर्गतं कस्यापि प्रकारस्य सभा-विरोधप्रदर्शन-धरना-मार्च-यात्रादीनां आयोजनार्थं सक्षमप्राधिकरणात् पूर्वलिखितसूचना तथा अनुमतिः अनिवार्या कृता। अस्य विषये विश्वविद्यालयस्य प्रॉक्टरकार्
दिल्ली विश्वविद्यालय (डीयू) (फाइल फोटो)।


नवदिल्ली, 23 मार्चमासः (हि.स.)।

दिल्लीविश्वविद्यालयेन परिसरस्य अन्तर्गतं कस्यापि प्रकारस्य सभा-विरोधप्रदर्शन-धरना-मार्च-यात्रादीनां आयोजनार्थं सक्षमप्राधिकरणात् पूर्वलिखितसूचना तथा अनुमतिः अनिवार्या कृता।

अस्य विषये विश्वविद्यालयस्य प्रॉक्टरकार्यालयेन सोमवासरे सूचना प्रकाशिताऽस्ति, यस्याः अन्तर्गतं सर्वे छात्राः शिक्षकाः कर्मचारीणः अन्ये सम्बन्धितव्यक्तयः च तस्याः कठोरपालनाय सूचिताः।

प्रॉक्टरः प्रो० मनोजकुमारसिंहः उक्तवान् यत् आयोजकैः आवेदनपत्रस्य भौतिकप्रतिः स्वहस्ताक्षरयुक्ता सम्यग्विवरणसमन्विता च स्वयम् उपस्थित्य विश्वविद्यालयस्य प्रॉक्टरकार्यालये तथा सम्बन्धितस्थानीयपुलिसाधिकारीणां समीपे समर्पणीया।

तेन उक्तं यत् आयोजकस्य नाम महाविद्यालयं संस्थानं विभागः सम्पर्कसङ्ख्या ईमेलपरिचयः पाठ्यक्रमनाम कार्यक्रमविवरणं कार्यक्रमस्वरूपं (यथा विरोधप्रदर्शनं सार्वजनिकभाषणं धरना रैली इत्यादि) कार्यक्रमस्य कालावधिः व्यवस्थोपकरणप्रयोगः वक्तृणां सूची सहभागिनां अनुमानितसंख्या च एतानि सर्वाणि विवरणानि न्यूनातिन्यूनं द्विसप्ततिघण्टाभ्यः पूर्वं प्रॉक्टरकार्यालये तथा स्थानीयपुलिसाधिकारीभ्यः निवेदनीयानि।

प्रो० मनोजकुमारसिंहः अपि उक्तवान् यत् कस्यापि परिस्थितौ इलेक्ट्रॉनिकसञ्चारः पम्प्लेट् पोस्टर नोटिस् सोशलमीडियाप्रकाशनं व्हाट्सएप् सन्देशप्रेषणं वा अन्यत् किमपि मुद्रितं डिजिटलं वा साधनं विश्वविद्यालयाय प्रदत्ता आधिकारिकसूचना अथवा अनुमतिरिति न स्वीकरिष्यते।

तेन उक्तं यत् आयोजकैः सहभागिभिः च परिसरस्य अन्तर्गतं कस्यापि कार्यक्रमे भागग्रहणाय बाह्यव्यक्तीनां आमन्त्रणं आगमनं वा अनुमतिः न दातव्या।

प्रॉक्टरः उक्तवान् यत् एतेषां निर्देशानां उल्लङ्घने आयोजकानां सहभागिनां सहायकानां च विरुद्धं कठोरशासनात्मककार्यवाही क्रियते, यस्मिन् निष्कासनं सेवाबहिष्कारः पुलिसकार्यवाही आरम्भः अन्ये उपयुक्तोपायाः च सम्मिलिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार