Enter your Email Address to subscribe to our newsletters

डॉ लोहिया जयंत्याः पूर्व संध्यायां शुभारब्धं समाजवादी रात्रि जन जागरणाभियानम्
फर्रुखाबादम् 23 मार्चमासः (हि.स.)।
प्रखरः समाजवादीचिन्तकः स्वतन्त्रतासेनानी च डॉ राममनोहरलोहिया इत्यस्य जयन्त्याः पूर्वसन्ध्यायां समाजवादीदलस्य जिलाउपाध्यक्षः पुष्पेन्द्रयादव-अधिवक्ता भोजपुरविधानसभाक्षेत्रस्य चौकीमहम्मदपुरग्रामे समाजवादीपार्टी-रात्रिजनजागरण-अभियानस्य प्रारम्भं कृतवान्।
जिलाउपाध्यक्षः पुष्पेन्द्रयादवः सर्वप्रथमं डॉ राममनोहरलोहिया इत्यस्य चित्रे माल्यार्पणं पुष्पार्पणं च कृत्वा तं नत्वा उक्तवान् यत् 2027 वर्षस्य निर्वाचनं दूरं नास्ति। वयं स्वसहचरैः सह जनपदस्य अनेकेषु ग्रामेषु गत्वा समाजवादी-रात्रिजनजागरण-अभियानकार्यक्रमं करिष्यामः।
तेन उक्तं यत् अस्माभिः डॉ राममनोहरलोहिया, डॉ भीमरावअम्बेडकर, श्रद्धेयः नेता मुलायमसिंहयादव इत्येषां स्वप्नानि साकाराणि कर्तव्यानि। अस्माभिः ग्रामे ग्रामे गत्वा जनान् समाजवादीविचारधारया संयोजयितुं आवश्यकम्। तदा एव 2027 तमे वर्षे अखिलेशयादवः मुख्यमन्त्री कर्तुं शक्यते।
जिलाउपाध्यक्षेन उक्तं यत् एषः समाजवादी-रात्रिजनजागरण-अभियानः फर्रुखाबादजनपदस्य प्रत्येकस्मिन् ग्रामे प्रवर्तिष्यते। अस्मिन् अवसरे वरिष्ठनेतारः देवेन्द्रकुशवाहा, विनोदकुमारवाल्मीकि, स्वदेशयादवः, विशालराजपूतः आदयः स्वविचारान् व्यक्तवन्तः।
अस्मिन् कार्यक्रमे विनोदकुमारवाल्मीकि, विशालराजपूतः, स्वदेशकुमारसागरवाल्मीकि, देवेन्द्रकुशवाहा, रियाजुद्दीन, प्रमोदराजपूतः, सुदेशः, बलरामराजपूतः, कुलदीपराजपूतः, शिवकुमारशाहिदः तथा शताधिकाः ग्रामवासिनः उपस्थिताः आसन्।
अस्मिन् समाजवादी-रात्रिजनजागरण-कार्यक्रमे केचन कार्यकर्तारः गीतसङ्गीतमहोत्सवं अपि आयोजितवन्तः, अपरैः कार्यकर्तृभिः अखिलेशयादवस्य विषये गीतानि रचयित्वा गायितानि। कार्यक्रमस्य सञ्चालनं रजतक्रान्तिकारी कृतवान्।
---------------
हिन्दुस्थान समाचार