Enter your Email Address to subscribe to our newsletters

सारणम्, 23 मार्चमासः (हि.स.)।
युवब्राह्मणचेतनामञ्चस्य तत्त्वाधाने आगामीपरशुरामजयन्त्याः सफलायोजनार्थं विचारविमर्शसभा आयोजिताऽभवत्।
सभायां सर्वसम्मत्या निर्णयः कृतः यत् आगामी एकोनविंशतितमे एप्रिलमासे भगवान् परशुरामस्य जयन्त्याः पावनावसरे जिलामुख्यालये भव्यशोभायात्रासहितं जयन्तीसमारोहः आयोज्यते। मञ्चस्य जिलाउपाध्यक्षः सह माध्यमप्रभारी पण्डितराजूरञ्जनतिवारी उक्तवान् यत् अस्य वर्षस्य आयोजनं ऐतिहासिकं भविष्यति, यस्मिन् समाजस्य एकता सांस्कृतिकधरोहरायाः च दर्शनं भविष्यति।
अस्मिन् अवसरे मञ्चस्य संयोजकः पण्डितसुभाषपाण्डेय कार्यकर्तॄन् सम्बोध्य आयोजनस्य सिद्ध्यर्थं सज्जतां कर्तुं आह्वानं कृतवान्। सभायां आयोजनस्य रूपरेखा मार्गनिर्धारणं सुरक्षा-व्यवस्था च विषये विस्तरेण चर्चा अभवत्।
उपस्थिताः अन्ये सदस्याः अपि आयोजनस्य सफलतायै स्वानि महत्त्वपूर्णान् परामर्शान् प्रस्तुता वन्तः।
---------------
हिन्दुस्थान समाचार