मध्यप्रदेशे भावान्तर-योजनायाः अन्तर्गतं अद्य आरभ्यते सर्षपस्य उपार्जनम्
भोपालनगरम्, २३ मार्चमासः (हि.स.)। मध्यप्रदेशे राज्य-सर्वकारेण भावान्तर-योजनायाः अन्तर्गतं न्यूनतम-समर्थन-मूल्ये (एमएसपी) सर्षपस्य उपार्जन-प्रक्रिया अद्य सोमवासरात् आरभ्यते। राज्यस्य अधिसूचित-विपणिषु अग्रिम ३० मईमास-पर्यन्तं कृषकाः स्वस्य सर्षप-उत्प
सरसो (प्रतीकात्मक)


भोपालनगरम्, २३ मार्चमासः (हि.स.)। मध्यप्रदेशे राज्य-सर्वकारेण भावान्तर-योजनायाः अन्तर्गतं न्यूनतम-समर्थन-मूल्ये (एमएसपी) सर्षपस्य उपार्जन-प्रक्रिया अद्य सोमवासरात् आरभ्यते। राज्यस्य अधिसूचित-विपणिषु अग्रिम ३० मईमास-पर्यन्तं कृषकाः स्वस्य सर्षप-उत्पादनं विक्रेतुं शक्नुवन्ति।

वस्तुतः राज्य-शासनेन सर्षप-उत्पादक-कृषकाणां कृते न्यूनतम-समर्थन-मूल्यस्य सुनिश्चित्यर्थं एषा भावान्तर-योजना प्रवर्तिता। अस्य कृते कृषकैः २६ फरवरीमासतः २० मार्चमासपर्यन्तं ई-उपार्जन-पटलम् (www.mpeuparjan.nic.in) इत्यस्मिन् पञ्जीकरणं कृतम्।

शासननिर्देशानुसारं योजनान्तर्गतं कृषकाणां पञ्जीकृत-क्षेत्रफलस्य औसत-उत्पादकतायाः च आधारेण तेषां पात्रतानुसारं लाभः प्रदीयते। भारत-सर्वकारस्य मार्गदर्शिकानुसारं राज्यस्य ४० प्रतिशत-उत्पादन-पर्यन्तं तथा १५ प्रतिशत-न्यूनतम-समर्थन-मूल्य-ह्रास-पर्यन्तं धनराशिः प्रदीयते।

योजनायां प्रथम-द्वि-सप्ताहयोः कृत-विक्रयस्य कृते “मॉडल्-रेट्” निर्धारणं प्रथम-१४-दिवसपर्यन्तं प्रदेशस्य सर्वासु विपणिषु सर्षप-विक्रय-मूल्यानां भार-औसत-मानं (Weighted Average) आधारेण क्रियते। उपार्जन-प्रारम्भात् अनन्तरं १४ दिवसपर्यन्तं एतत् मॉडल्-रेट् सम्पूर्ण-प्रदेशे प्रभावी भविष्यति। ततः परं प्रतिदिनं गत-१४-दिवस-आधारित-भार-औसत-मूल्येन नवीनं मॉडल्-रेट् निर्धार्यते, यत् प्रतिदिनं मध्यरात्रौ १२ वादने ई-मण्डी-पटले प्रदर्क्ष्यते।

यदि अधिसूचित-विपणिषु एफएक्यू-मानकस्य सर्षपस्य विक्रय-मूल्यं एमएसपीतः न्यूनं स्यात्, किन्तु राज्येन घोषितात् औसत-थोक-मूल्यात् अधिकं भवति, तर्हि कृषकाय केवलं एमएसपी तथा वास्तविक-विक्रय-मूल्ययोः अन्तरं प्रदीयते। यदि विक्रय-मूल्यं घोषित-औसत-थोक-मूल्यात् अपि न्यूनं भवति, तर्हि कृषकाय एमएसपी तथा घोषित-औसत-थोक-मूल्ययोः अन्तरमेव प्रदीयते।योजनायां पञ्जीकृतः कृषकः अधिसूचित-विपणिषु सत्यापित-क्षेत्रफल-उत्पादकतामानयोः आधारेण निर्धारित-सीमापर्यन्तं विक्रयं कृत्वा भावान्तर-राशिं प्राप्स्यति। अस्मिन् भारत-सर्वकारेण निर्दिष्ट-प्रावधानानुसारं धनराशिः प्रदीयते, शेष-राशिः राज्य-सर्वकारेण “टॉप्-अप्” रूपेण पूर्यते। कृषकाय विपणिषु प्राप्ता विक्रय-राशिः व्यापरिणा एक-दिने, तथा भावान्तर-राशिः राज्य-शासनेन १५ दिवसान्तराले डीबीटी-प्रणाल्या सरलं तस्य धनागारे स्थानान्तरिता भविष्यति।

भोपाल-सम्भागे ७४.६८% कृषकाणां सत्यापनं सम्पन्नम्

मध्यप्रदेश-राज्य-कृषि-विपणन-संघस्य भोपाल-आञ्चलिक-कार्यालयेन प्रदत्त-सूचनानुसारं सर्षप-भावान्तर-योजनायां भोपाल-सम्भागे अद्यावधि १९,६५७ कृषकाः पञ्जीकृताः, तेषु १४,६७९ कृषकाणां सत्यापनं सम्पन्नम्। अत्र सत्यापन-प्रतिशतं ७४.६८ इति अभिलेखितम्, यदा ४,९७८ प्रकरणानि अद्यापि लंबितानि सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता