पीपराकोठीमध्ये आजीविका-मेलापकस्य आयोजनम्
पूर्वीचम्पारणजनपद:, २३ मार्चमासः (हि.स.)। कृषि-विज्ञान-केंद्रस्य सभागरे सोमवासरे जीविका संस्थया रोजगारेण सह मार्गदर्शन-मेलापकस्य आयोजनम् अभवत्। उद्घाटनम् डीडीसी डॉ.प्रदीप-कुमारः, डीपीएम सौरव-कुमारः केवीके प्रमुखः डॉ.अरविंद-कुमार-सिंहः च संयुक्तरूपे
जीविका रोजगार मेला में पहुंचे जीविका दीदीयां


पूर्वीचम्पारणजनपद:, २३ मार्चमासः (हि.स.)। कृषि-विज्ञान-केंद्रस्य सभागरे सोमवासरे जीविका संस्थया रोजगारेण सह मार्गदर्शन-मेलापकस्य आयोजनम् अभवत्। उद्घाटनम् डीडीसी डॉ.प्रदीप-कुमारः, डीपीएम सौरव-कुमारः केवीके प्रमुखः डॉ.अरविंद-कुमार-सिंहः च संयुक्तरूपेण दीपप्रज्वलनं कृत्वा कृतवन्तः। अस्य मेलापकस्य उद्देश्यं यून: प्रति रोजगार-अवसरेषु मार्गदर्शनं च प्रदातुं आसीत्।

मेलापके सम्मिलिता: अष्ट निर्माण्य: स्व-स्व-वितानानि स्थापयन्ति। एतेषु वितानेषु यून: प्रति विभिन्नेषु क्षेत्रेषु उपलब्धानां रोजगार-अवसरेषु विस्तीर्णा: सूचनाः प्रदत्ता:। युवान: युवत्यः च संस्था-प्रतिनिधिभि: सह प्रत्यक्षसंवादं कृत्वा रोजगार-अवसरेषु, अपेक्षित-योग्यताया: चयन-प्रक्रियायाः च विषये सूचनां प्राप्तवन्तः। अतिथयः अपि विभिन्न-वितानानि निरीक्ष्य प्रदत्तानि विवरणानि सौविध्यानि च अवलोकितवन्तः।

स्ववक्तव्ये डीडीसी डॉ.प्रदीप-कुमारः उक्तवान् यत् जीविका स्व-रोजगारस्य एव नाम अस्ति। जीविकायाः साहाय्येन सङ्लग्नाः महिलाः अद्य प्रत्येकं क्षेत्रे स्व-प्रतिष्ठां स्थापयन्ति। डॉ.कुमारः अस्य प्रयत्नस्य उद्देश्यं महिला: आत्मनिर्भरा: करणीया:, ग्रामीण-अर्थव्यवस्था: सशक्तीकरणम् इति प्रतिपादितवान्, तत्रैव यून: एतेषु अवसरेषु लाभं ग्रहीतुं आह्वानं कृतवान्। अस्मिन् अवसरे रोजगार-प्रबन्धकः अभिषेक-आनन्दः, बीपीएम लक्ष्मण-प्रसाद-सिंहः, सीसी अनुपम-कुमारः, पंचानन्दः च जीविका-कर्मचारिणः स्वयं-सहायता-समूहस्य सदस्याः च उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता