धामी-सर्वकारस्य चत्वारि वर्षाणि : नन्दा-देवी-राजजात-यात्रायाः दृश्यं मनांसि मोहयत्, सांस्कृतिक-प्रस्तुतयः वातावरणं रमणीयम् अकुर्वन्
देहरादूनम्, २३ मार्चमासः (हि.स.)। उत्तराखण्ड-सर्वकारस्य चतुर्वर्ष-पूर्तेः अवसरे आयोजिते “चार-साल-बेमिसाल” कार्यक्रमे नगरस्य संचलनप्राङ्गणे देशस्य विविध-सांस्कृतिक-परम्परायाः दर्शनं जातम्। मुख्य-कार्यक्रमे उत्तराखण्डस्य लोक-परम्पराः सांस्कृतिक-धरोहर
धामी सरकार के चार1 साल के कार्यक्रम पर आयोजित  कार्यक्रम स्थल के बाहर प्रस्तुति देते कलाकार।


परेड मैदान में आयोजित मुख्य कार्यक्रम स्थल पर एकत्रित लोग।


परेड मैदान स्थित मुख्य कार्यक्रम में मुख्यमंत्री सहित मंचासीन अतिथि।


देहरादूनम्, २३ मार्चमासः (हि.स.)। उत्तराखण्ड-सर्वकारस्य चतुर्वर्ष-पूर्तेः अवसरे आयोजिते “चार-साल-बेमिसाल” कार्यक्रमे नगरस्य संचलनप्राङ्गणे देशस्य विविध-सांस्कृतिक-परम्परायाः दर्शनं जातम्। मुख्य-कार्यक्रमे उत्तराखण्डस्य लोक-परम्पराः सांस्कृतिक-धरोहराणि च आधृत्य आकर्षक-प्रस्तुतयः प्रदर्शिताः, याभिः दर्शकाः मन्त्रमुग्धाः अभवन्। अस्मिन् अवसरे जनप्रतिनिधयः सर्वकारस्य उपलब्धिनां विषये अपि प्रकाशं कृतवन्तः।

सोमवासरे प्रातःकालादेव संचलन-प्राङ्गणे जनानां समागमः आरब्धः। मुख्य-द्वारेण सहितं सम्पूर्ण-परिसरे विविध-सांस्कृतिक-कार्यक्रमाणां आयोजनं कृतम्, येन सर्वत्र उत्सवमयं वातावरणम् आसीत्। अस्मिन् अवसरे मन्त्री खजान-दासः, डोईवाला-क्षेत्रस्य विधायकः बृजभूषण-गौरोला, सहसपुर-क्षेत्रस्य विधायकः सहदेव-पुण्डीरः च राज्यस्य चतुर्वर्षीय-विकास-कार्याणां वर्णनं कृतवन्तः। ते अवदन् यत् राज्ये आधारभूत-संरचनायाम्, मार्ग-निर्माणे, स्वास्थ्य-शिक्षा-पर्यटन-क्षेत्रेषु च उल्लेखनीया प्रगतिः अभवत्। ते अवदन् यत् जनकल्याणकारी-योजनानां लाभः अन्तिम-जनपर्यन्तं प्रापयितुं कृतप्रयत्नैः समग्र-विकासः सुदृढः जातः, तथा भविष्ये अपि विकास-कार्याणि एवमेव निरन्तरं प्रचलिष्यन्ति।

कार्यक्रम-स्थलस्य मुख्य-द्वारे प्रसिद्धा नन्दा-देवी-राजजात-यात्रा आधारितं मनोहर-प्रदर्शनं विशेष-आकर्षणं बभूव। पारम्परिक-वेशभूषया, लोक-संगीत-नृत्याभ्यां च यात्रायाः धार्मिक-आस्थां सांस्कृतिक-महत्त्वं च प्रभावी-रूपेण प्रस्तूयताम्। तदतिरिक्तं विभिन्न-राज्येभ्यः आगताः कलाकाराः अपि स्व-स्व-सांस्कृतिक-दृश्यं प्रदर्शितवन्तः। विविध-लोक-नृत्य-संगीत-कार्यक्रमाः “एक-भारत-श्रेष्ठ-भारत” इति भावनां साकारयन्तः आयोजनं अधिकं जीवंतं कृतवन्तः।

कार्यक्रमे बहुसंख्यकाः दर्शकाः उपस्थिताः सन्तः प्रस्तुतिनां उत्साहपूर्वकं स्वागतं कृतवन्तः तथा कलाकारान् प्रोत्साहितवन्तः। सांस्कृतिक-कार्यक्रमाः सम्पूर्ण-आयोजनस्य मुख्य-आकर्षणं आसन्, येन देशस्य सांस्कृतिक-एकता-विविधता च एकस्मिन् मंचे प्रदर्शिता। अस्मिन् अवसरे मन्त्रिणः, विधायकाः, महापौरः, मुख्य-सचिवः, डीजीपी इत्यादयः गणमान्य-व्यक्तयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता