Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २३ मार्चमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः बलिदानदिवसे महतः क्रान्तिकारिणः, अमर-बलिदानिनः भगतसिंह-सुखदेव-राजगुरु-इत्येतेभ्यः नमनं कृतवान्। सः तेषां साहसं, समर्पणं राष्ट्रप्रेम च अत्यन्तं प्रेरणादायकं इति अवदत्।
मुख्यमन्त्री योगी-आदित्यनाथः सोमवासरे स्वस्य ‘एक्स’ इति सामाजिक-माध्यम-लेखने लिखितवान् यत्- “क्रान्तेः ज्योतिं प्रज्वालयितवन्तः अमर-बलिदानिनः भगतसिंह-सुखदेव-राजगुरु-इत्येतेषां त्यागः भारतस्य इतिहासे स्वर्णिमः अध्यायः अस्ति। तेषां साहस-समर्पण-राष्ट्रप्रेम-भावना वर्षाणि यावत् अस्मान् ‘राष्ट्रं सर्वोपरि’ इति प्रेरणां दास्यति।”
अस्मिन् बलिदान-दिवसे सः एतेभ्यः वीर-हुतात्मभ्यः विनम्रां श्रद्धाञ्जलिं अर्पितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता