Enter your Email Address to subscribe to our newsletters


द्वयोः मंदिरयोः मंगला आरत्याः प्रागेव श्रद्धालवो दर्शनाय पूजनाय च कतारबद्धाः अजायन्त
वाराणसी,23 मार्चमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां (काश्यां) वासन्तिक-चैत्र-नवरात्रस्य पञ्चमः दिवसः माता विशालाक्षीगौरीदेव्यै समर्पितः आसीत्। परम्परानुसारं सोमवासरे श्रद्धालवः मीरघाटस्थिते शक्तिपीठे विशालाक्षीगौरीदेव्याः तथा जैतपुरास्थिते बागेश्वरीदेव्याः (स्कन्दमातुः) मन्दिरे उपस्थितिं कृतवन्तः।
दर्शनपूजनसमये उभयोः मन्दिरयोः श्रद्धालवः स्वगृहपरिवारस्य देशसमाजस्य च सुखशान्त्यर्थं प्रार्थनां कृतवन्तः। नवदुर्गाया गौरीस्वरूपस्य च दर्शनपूजनार्थं श्रद्धालवः प्रातःकालादेव मन्दिरं प्रति आगन्तुं आरब्धवन्तः। उभयोः मन्दिरयोः मङ्गलारत्याः पूर्वमेव श्रद्धालवः पङ्क्तिबद्धाः सन्तः द्वारोद्धाटनस्य प्रतीक्षां कृतवन्तः।
जैतपुरास्थितायां स्कन्दमातुः विग्रहः पुजारिणः निरीक्षणे पञ्चामृतस्नानं कृतम्। अनन्तरं मातुः विग्रहाय नूतनवस्त्राणि धारयित्वा गुलाब, गुडहल, बेला इत्यादिभिः पुष्पैः विधिवत् श्रृङ्गारः कृतः। ततः वैदिकमन्त्रउच्चारणेन सह पूजनार्चनं कृत्वा भोगारत्याः अनन्तरं मन्दिरस्य द्वारं जनसामान्याय उद्घाटितम्।
बागेश्वरीदेवी विद्यानां देवी इति मन्यते। अत्र नवरात्रकाले श्रद्धालूनां सह बहुसंख्यकाः छात्राः अपि दर्शनपूजनार्थं आगच्छन्ति। श्रद्धा अस्ति यत् माता भक्तानां मनोकामनाः पूरयति। मन्दिरस्य पुजारी गोपालगुरुः (महन्तः गोपालमिश्रः) उक्तवान् यत् माता मानवसमाजस्य रक्षां करोति तथा भक्तानां सत्यहृदयेन कृताः कामनाः पूरयति।
भगवान् स्कन्दस्य माता इति कारणात् अस्याः स्वरूपस्य नाम “स्कन्दमाता” इति प्रसिद्धम्। सा कमलासने विराजते तथा भगवान् स्कन्दः तस्याः अङ्के बालरूपेण उपविष्टः अस्ति। भगवान् स्कन्दः देवासुरसंग्रामे देवानां सेनापतिः आसीत्। पुराणेषु तं “कुमार” तथा “शक्ति” इति नामभ्यां वर्णितम्।
स्कन्दमातुः उपासनया बालरूपे स्कन्ददेवस्य अपि उपासना स्वयमेव भवति। सा सूर्यमण्डलस्य अधिष्ठात्री देवी इति कारणात् तस्याः उपासनया अलौकिकतेजः कान्तिश्च प्राप्यते।
शक्तिपीठे विशालाक्षीदेवीमन्दिरे पुजारी पण्डितराजनाथतिवारी उक्तवान् यत् देव्यै कमलपुष्पाणि अत्यन्तं प्रियाणि। काश्याः नवशक्तिपीठेषु माता विशालाक्षी अत्यन्तं महत्त्वपूर्णं स्थानं धारयति। मान्यतानुसारं अत्र स्थाने माता सतीदेव्याः कर्णकुण्डलं तस्याः एकं च अङ्गं पतितम्, येन अस्य स्थानस्य महिमा वर्धिता।
विशालनेत्रयुक्ता माता विशालाक्षी सतीदेव्याः एकपञ्चाशत् शक्तिपीठेषु एकत्वेन प्रसिद्धा अस्ति। तस्याः महत्त्वं काञ्च्यां कामाक्षीदेव्याः तथा मदुरायां मीनाक्षीदेव्याः तुल्यम् अस्ति। काश्यां एषा श्रद्धा अस्ति यत् विशालाक्षीदेव्याः दर्शनात् जन्मजन्मान्तरकृतानि पापानि नश्यन्ति।
शास्त्रानुसारं काश्याः अधिपः बाबा विश्वनाथः स्वयम् विशालाक्षीदेव्याः मन्दिरे विश्रामं करोति। शक्तिपीठे दर्शनार्थं सोनारपुरात् आगताः गीता मोदनवाल, सुधा केशरवानी, मधुमिता चौबे इत्यादयः उक्तवन्तः यत् चैत्रनवरात्रस्य पञ्चमे दिने गौरीरूपिण्याः विशालाक्षीदेव्याः दर्शनात् सर्वाः मनोकामनाः सिद्ध्यन्ति। सन्तानसुखात् वञ्चितानां जनानां कृते अपि अस्याः दर्शनं शुभं मन्यते।
हिन्दुस्थान समाचार