मध्यप्रदेशे अद्य विश्व-क्षय-दिवसे शत-दिवसीय-निक्षय-शिविर-अभियानस्य शुभारम्भः भविष्यति
सीहोरजनपदः, २४ मार्चमासः (हि.स.)। मध्यप्रदेशे अद्य मङ्गलवासरे विश्व-क्षय-दिवसस्य अवसरे विविधाः जन-जागरूकता-कार्यक्रमाः आयोज्यन्ते। अस्मिन् अवसरे टीबी-मुक्त-भारत-अभियानस्य अन्तर्गतं शत-दिवसीय-निक्षय-शिविर-अभियानस्य शुभारम्भः क्रियते। अस्मिन् काले प्
विश्व क्षय दिवस


सीहोरजनपदः, २४ मार्चमासः (हि.स.)। मध्यप्रदेशे अद्य मङ्गलवासरे विश्व-क्षय-दिवसस्य अवसरे विविधाः जन-जागरूकता-कार्यक्रमाः आयोज्यन्ते। अस्मिन् अवसरे टीबी-मुक्त-भारत-अभियानस्य अन्तर्गतं शत-दिवसीय-निक्षय-शिविर-अभियानस्य शुभारम्भः क्रियते। अस्मिन् काले प्रदेशस्य स्वास्थ्य-संस्थासु शुभारम्भ-कार्यक्रमाः अपि आयोज्यन्ते।

मुख्य-चिकित्सा-स्वास्थ्य-अधिकारी डॉ.सुधीर-डेहरिया उक्तवान् यत् अस्य अभियानस्य प्रमुख-उद्देश्यानि उच्च-समस्या-क्षेत्रेषु संवेदनशील-जनसंख्यायां च सक्रिय-क्षय-रोगस्य चिह्निकरणम्, शीघ्र-निदानं, उपचारः, पोषण-सहायता तथा सामुदायिक-सहभागितायाः माध्यमेन क्षय-रोगस्य प्रसार-निरोधः इति। अभियानस्य अन्तर्गतं जनपदे चिन्हितेषु उच्च-समस्यात्मक-ग्रामेषु जनसंख्यायाः परीक्षणं क्रियते। आयुष्मान-आरोग्य-शिविरेषु संभावित-रोगिणां क्षय-रोग-चिह्निकरणार्थं एक्स-रे सहितं रक्तचापः, रक्त-शर्करा तथा बीएमआई-परीक्षा च क्रियते। तेन सह ग्रामानुसारं विकासखण्डानुसारं च शिविराणि संस्थाप्य संभावित-रोगिणां परीक्षणं क्रियते।

अभियानान्तर्गतं निक्षय-मित्र-प्रयत्नस्य माध्यमेन पोषण-सहायता तथा पोषण-योजनायाः प्रभावी-क्रियान्वयनं सुनिश्चितं क्रियते। अभियानान्तर्गतं जन-जागरूकतार्थं सामुदायिक-सहभागितायाः विविधाः गतिविधयः आयोज्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता