Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 24 मार्चमासः (हि.स.)।
हिमंत बिस्व सरमा इत्येषः असमराज्यस्य मुख्यमंत्री बासन्तीपूजायाः चैत्रनवरात्रेः च शुभारम्भस्य अवसरे प्रदेशवासिभ्यः हार्दिकाः शुभाशयाः अयच्छत्।
मुख्यमन्त्रिणा स्वसन्देशे उक्तं यत् शक्तेः साहसस्य आत्मविश्वासस्य च अधिष्ठात्री मां दुर्गा आगमनेन केवलं प्रकृतौ एव न, अपितु अस्माकं जीवने अपि नूतनाशाया ऊर्जा च संचारः भवति। तेन कामिता यत् अयं पावनः अवसरः सर्वेषां जीवने सुखं शान्तिं समृद्धिं च आनयतु।
स्वस्य सामाजिकमाध्यमसन्देशे अपि तेन उक्तं यत् अस्यां शुभतिथौ मां दुर्गा इत्यस्याः आशीर्वादः सर्वेषु सदा भवतु तथा समाजे सौख्यसौहार्दयोः वातावरणं स्थाप्यताम्। अन्ते च मुख्यमन्त्रिणा “जय मां दुर्गा” इति उद्घोषेण स्वसन्देशस्य समापनं कृतम्।
हिन्दुस्थान समाचार