बिहारस्य 21कायागारेषु निर्मास्यन्ते44 आवासीयानि भवनानि, 88.89 कोटिरुप्यकाणि व्ययीभविष्यन्ति
पटना, 24 मार्चमासः (हि.स.)। बिहारराज्यसर्वकारेण काराकर्मिणां कृते आवासीयसुविधानां सुदृढीकरणार्थं महत्त्वपूर्णा योजना अनुमोदिता अस्ति। उपमुख्यमन्त्री सम्राटचौधरी मङ्गलवासरे उक्तवान् यत् राज्यस्य एकविंशतौ कारागारेषु कुलं चतुश्चत्वारिंशत् बी-प्रकार (ज
उप मुख्यमंत्री सम्राट चौधरी


पटना, 24 मार्चमासः (हि.स.)। बिहारराज्यसर्वकारेण काराकर्मिणां कृते आवासीयसुविधानां सुदृढीकरणार्थं महत्त्वपूर्णा योजना अनुमोदिता अस्ति। उपमुख्यमन्त्री सम्राटचौधरी मङ्गलवासरे उक्तवान् यत् राज्यस्य एकविंशतौ कारागारेषु कुलं चतुश्चत्वारिंशत् बी-प्रकार (जी+३) आवासीयभवनानां निर्माणं क्रियते।

तेन उक्तं यत् प्रत्येकस्य भवनस्य मूल्यं २०२.०४ लक्षरूप्यकाणि निर्धारितम् अस्ति, यस्य आधारेण समग्रपरियोजनायाः अनुमानितव्ययः ८८ कोटि ८९ लक्ष ७६ सहस्र रूप्यकाणि निश्चितः अस्ति। एषा योजना वित्तीयवर्षे २०२५–२६ तथा आगामिवर्षेषु क्रमशः क्रियान्विता भविष्यति।

उपमुख्यमन्त्री चौधरी उक्तवान् यत् एषा योजना बिहारकाराहस्तक २०१२ इत्यस्य नियमेषु आधृता अस्ति। तदनुसारं मुख्यकक्षपालात् आरभ्य उच्चाधिकारिणां कृते कारापरिसरे निशुल्कं निवासस्थानं प्रदातुं अनिवार्यम् अस्ति। अपि च दशप्रतिशतं कक्षपालानां पारिवारिकनिवासः, शेषेषां तु एकाकिनां निवासव्यवस्था विधीयते।

तेन उक्तं यत् राज्ये वर्तमानकाले ५०३४ कक्षपालपदानि स्वीकृतानि सन्ति। एतत् दृष्ट्वा वर्तमानभविष्ययोः आवश्यकतानुसारं आवासीयसंरचनाया विस्तारः क्रियते।

सम्राटचौधरी अवदत् यत् मुजफ्फरपुरे ०२, पूर्णियायां ०३, मोतिहार्यां ०४, आऱायां ०२, भभुआयां ०२, बेतियायां ०१, सिवाने ०२, दरभङ्गायां ०२, मधुबन्यां ०२, सीतामढ्यां ०२, सुपौले ०२, कटिहारे ०२, किशनगञ्जे ०२, सहरसायां ०२, बेगूसराये ०२, जमुई ०२, लखीसराये ०२, मुंगेरायां ०२, शेखपुरायां ०२, औरङ्गाबादे ०२ तथा नवादायां ०२ इति एकविंशतौ कारागारेषु कुलं ४४ भवनानां निर्माणं भविष्यति।

तेन उक्तं यत् राज्ये विधिव्यवस्थां अधिकं प्रभाविनम्आधुनिकं च कर्तुं सरकारः निरन्तरं आधारभूतसंरचनाविकासे कार्यं करोति। हालकाले पूर्वीचम्पारणे, अररियायां, सारणे, बेगूसराये तथा किशनगञ्जे थाना-भवनानां अन्येषां च आधारभूतसंरचनानां निर्माणार्थं ४६.३४ कोटिरूप्यकाणां योजना अनुमोदिता अस्ति।

उपमुख्यमन्त्री उक्तवान् यत् अस्य योजनायाः सम्पन्नतया काराकर्मिभ्यः उत्तमानि आवासीयसुविधानि उपलब्धानि भविष्यन्ति, येन ते अनुकूलपर्यावरणे कार्यं कर्तुं समर्थाः भविष्यन्ति तथा काराप्रशासनस्य कार्यक्षमतायाम् अपि उन्नतिः अपेक्ष्यते।-----------

हिन्दुस्थान समाचार