Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी/जलपाईगुड़ी, 24 मार्चमासः (हि. स.)।पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी मङ्गलवासरे निर्वाचनप्रचारार्थं उत्तरबङ्गप्रदेशं गमिष्यति। प्राप्तसूचनानुसारं सा हासीमारा स्थानात् उदग्रयानस्य माध्यमेन चालसा नाम स्थानं गमिष्यति, यत्र नागराकाटा विधानसभा क्षेत्रस्य दलप्रत्याशी संजय कुजूरस्य समर्थनार्थं कस्यचित् गिरिजागृहं गत्वा ईसाईसमुदायात् समर्थनं याचिष्यति।
ततः अनन्तरं बुधवासरे प्रातःकाले सा मयनागुड़ी टाउन क्लब क्षेत्रे प्रत्याशी राममोहन रायस्य समर्थनार्थं स्वप्रथमां जनसभां सम्बोधयिष्यति।
अस्मिन्नेव दिने सा जलपाईगुड़ी जनपदस्य डाबग्राम फुलबाड़ी तथा दार्जिलिंग जनपदस्य माटीगाड़ा नक्सलबाड़ी क्षेत्रयोः अपि दलप्रत्याशीनां समर्थनार्थं सभाः करिष्यति। तृणमूल कांग्रेस दलस्य पक्षे एतासां सभानां कृते व्यापकतया सज्जा कृता अस्ति, प्रशासनस्य पक्षे अपि सुरक्षायाः कठोरव्यवस्था कृताः सन्ति।
हिन्दुस्थान समाचार