सहकारी समितिभ्यः उत्कृष्टतायाश्श्रेष्ठतायाश्च पुरस्कारः-2025 प्रदत्तः
जयपुरम्, 24 मार्चमासः (हि.स.)। सहकारिता-राज्यमन्त्री गौतमकुमारदकः उक्तवान् यत् वर्ष 2047 पर्यन्तं विकसित-भारत-निर्माणे सहकारिता-क्षेत्रस्य भूमिका अत्यन्तं महत्वपूर्णा भविष्यति। तेन उक्तं यत् राज्य-सर्वकारः सहकारितां प्राथमिकतां दत्त्वा अधिकाधिक-जना
संबोधन


जयपुरम्, 24 मार्चमासः (हि.स.)। सहकारिता-राज्यमन्त्री गौतमकुमारदकः उक्तवान् यत् वर्ष 2047 पर्यन्तं विकसित-भारत-निर्माणे सहकारिता-क्षेत्रस्य भूमिका अत्यन्तं महत्वपूर्णा भविष्यति। तेन उक्तं यत् राज्य-सर्वकारः सहकारितां प्राथमिकतां दत्त्वा अधिकाधिक-जनान् अस्मिन् संयोजयितुं तथा लाभान्वितान् कर्तुं निरन्तरं प्रयत्नशीलोऽस्ति।

मङ्गलवासरे कॉन्स्टिट्यूशन-क्लब-स्थले राष्ट्रिय-सहकारी-विकास-निगमेन आयोजिते कार्यक्रमे मन्त्रिणा विविध-श्रेणीषु उत्कृष्ट-प्रदर्शनं कुर्वन्त्यः सहकारी-समितयः ‘क्षेत्रीय-उत्कृष्टता-एवं-श्रेष्ठता-पुरस्कार-2025’ इति सम्मानैः सम्मानिताः। अस्मिन् अवसरे तेन उक्तं यत् सहकारी-आन्दोलनं आत्मनिर्भर-भारत-दिशि दृढं आधारोऽस्ति तथा च अनेन देशे आर्थिक-सशक्तीकरणस्य गति वर्धते।

तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी द्वारा वर्ष 2021 मध्ये सहकारिता-मन्त्रालयस्य गठनं कृत्वा अमितशाहाय तस्य दायित्वं प्रदत्तम्, ततः अनन्तरं देशे सहकारिता-क्षेत्रे व्यापक-परिवर्तनं दृष्टम्। सहकारितया स्वदेशीयता आत्मनिर्भरता च प्रोत्साह्येते।

गौतमकुमारदकः उक्तवान् यत् पुरस्कृताः समितयः अन्यासां संस्थानां कृते प्रेरणास्त्रोतः भविष्यन्ति तथा सहकारितायाः लाभः समाजस्य अन्तिम-व्यक्तेः पर्यन्तं प्राप्तव्यः। तेन एतदपि उक्तं यत् सहकारी-समितिषु नूतन-जनानां कार्य-अवसरः दातव्यः, येन तेषां ऊर्जा प्रतिभा च क्षेत्र-विकासे उपयुज्येत।

कार्यक्रमे तेन उक्तं यत् मुख्यमन्त्री भजनलालशर्मा-नेतृत्वे सहकारिता-क्षेत्राय विशेष-प्राथमिकता दीयते। अद्यतन-सदस्यता-अभियानस्य अन्तर्गतं लगभगं नव-लक्ष-सदस्याः नूतनतया संयोजिताः, येन सहकारी-संस्थानां विस्तारः सुदृढः अभवत्। वर्तमान-काले अस्मिन् क्षेत्रे 120 अधिकाः योजनाः सञ्चालिताः सन्ति।

अस्मिन् अवसरे किशनगढ-क्रय-विक्रय-सहकारी-समितेः अध्यक्षः चेतनचौधरी उक्तवान् यत् केन्द्र-राज्य-सर्वकारयोः मार्गदर्शनेन सहकारिता-क्षेत्रे पारदर्शिता वर्धिता तथा कृषकाणां समर्थन-मूल्य-वृद्धेः लाभः प्राप्तः। कार्यक्रमे एनसीडीसी-क्षेत्रीय-निदेशकः सुनीलकुमारछापोला अवदत् यत् उत्कृष्टता-पुरस्कारस्य अन्तर्गतं ट्रॉफी प्रमाणपत्रं 35000-रूप्यकाणि च, श्रेष्ठता-पुरस्कारस्य अन्तर्गतं ट्रॉफी प्रमाणपत्रं 25000-रूप्यकाणि च प्रदीयन्ते।

कार्यक्रमे सहकारिता-विभागस्य एनसीडीसी-अधिकारिणः सहकारी-समितीनां पदाधिकारिणः सदस्याः च बहुसंख्यया उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार