मध्यप्रदेशस्य मुख्यमन्त्री डॉ.यादवः अद्य भाण्डेर-नगरे कृषक-सम्मेलने सहभागितां करिष्यति
भोपालनगरम्, २४ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य मङ्गलवासरे दतिया-जनपदस्य भाण्डेर-नगरे आयोजिते कृषक-सम्मेलने सहभागी भविष्यति। मुख्यमन्त्री दतिया-जनपदे ६२ कोटि-रूप्यकाधिक-मूल्यानां विकास-कार्याणां भूमिपूजनं लोकार्पणं च
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालनगरम्, २४ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य मङ्गलवासरे दतिया-जनपदस्य भाण्डेर-नगरे आयोजिते कृषक-सम्मेलने सहभागी भविष्यति। मुख्यमन्त्री दतिया-जनपदे ६२ कोटि-रूप्यकाधिक-मूल्यानां विकास-कार्याणां भूमिपूजनं लोकार्पणं च करिष्यति। सहैव विविध-विभागानां प्रदर्शिनीम् अवलोकयिष्यति तथा शासनस्य विभिन्न-जनकल्याणकारी-योजनानां हितलाभान् अपि वितरिष्यति।

जनसम्पर्क-अधिकारी हितेन्द्रसिंह-भदौरिया इत्यनेन प्रदत्तायां सूचनायाम् उक्तं यत् कृषक-कल्याण-वर्षस्य उपलक्ष्ये राज्य-सर्वकारेण प्रदेशव्यापिनी कृषक-सम्मेलनानि आयोज्यन्ते। अस्यां श्रृंखलायां अद्य मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य मुख्यातिथ्ये दतिया-जनपदस्य भाण्डेर-स्थिते मण्डी-प्राङ्गणे विशालं कृषक-सम्मेलनम् आयोज्यते। अस्मिन् अवसरे मुख्यमन्त्री डॉ.यादवः प्रायः ६२ कोटि-रूप्यक-व्ययस्य विकास-कार्याणां भूमिपूजनं लोकार्पणं च करिष्यति। सहैव शासनस्य विविध-कल्याणकारी-योजनानाम् अन्तर्गतं हितलाभ-वितरणं अपि क्रियते।

कार्यक्रमे मुख्यमन्त्री डॉ.यादवः दतिया-जनपदस्य पीजी-कॉलेज-दतिया इत्यत्र विज्ञान-संकाय-भवनस्य भोजनालयस्य च निर्माण-कार्यं, माता-रतनगढ-समग्र-विकास-योजनायां यात्री-निवास-भवन-निर्माण-कार्यं, पुलिस-लाइन-परिसरे रक्षित-निरीक्षक-कार्यालय-निर्माण-कार्यं, ३३/११ केवी ५ एमवीए उपकेन्द्र-स्थापना-कार्यं तथा ३.१५ एमवीए पावर-परिणामित्र-स्थापना-कार्यं, सांदीपनि-शासकीय-उत्कृष्ट-उच्चतर-माध्यमिक-विद्यालय-भाण्डेर-निर्माण-कार्यं, ततारपुर-क्रीडाप्राङ्गण-निकटे विश्राम-गृह-निर्माण-कार्यं, पण्डोखर-धाम-निकटे विश्राम-गृह-निर्माण-कार्यं तथा रामगढ़-माता-मन्दिर-निकटे विश्राम-गृह-निर्माण-कार्याणां लोकार्पणं करिष्यति।सहैव रतनगढ़-माता-मन्दिर-निकटे ३३/११ केवी ५ एमवीए उपकेन्द्र-स्थापना-कार्यस्य तथा सांदीपनि-उच्चतर-माध्यमिक-विद्यालय-भाण्डेरस्य ५०-आसन-युक्त-छात्र-छात्रावासयोः भूमिपूजनं करिष्यति।

निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्रिणः डॉ.यादवस्य अपराह्णे १२.२५ वादने हेलिकॉप्टर-द्वारा दतिया-जनपदस्य भाण्डेर-नगरे आगमनं भविष्यति। विशाल-कृषक-सम्मेलने सहभागितां कृत्वा सः अपराह्णे १.३० वादने भाण्डेरतः हेलिकॉप्टर-द्वारा प्रस्थाय अपराह्णे प्रायः २ वादने राजमाता-विजयाराजे-सिंधिया-विमानतले महाराजपुरम् आगमिष्यति। ततः अल्पविरामानन्तरं ग्वालियर-विमानतलात् विमान-द्वारा नव-दिल्ली-नगरं प्रति प्रस्थानं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता