लंबितनियुक्तेः प्रक्रिया शीघ्रं करणीया पूर्णा : उप मुख्यमंत्री शुक्लः
भोपालम्, 24 मार्चमासः (हि.स.)। उपमुख्यमन्त्री राजेन्द्र-शुक्लः मङ्गलवासरे मन्त्रालये लोक-स्वास्थ्य-चिकित्सा-शिक्षा-विभागस्य विभिन्न-विषयाणां समीक्षां कृत्वा आवश्यकान् दिशा-निर्देशान् दत्तवान्। उपमुख्यमन्त्री शुक्लः विभागीय-नियुक्ति-प्रक्रियाणां
उप मुख्यमंत्री ने लोक स्वास्थ्य एवं चिकित्सा शिक्षा विभाग के विभिन्न विषयों की समीक्षा की


भोपालम्, 24 मार्चमासः (हि.स.)।

उपमुख्यमन्त्री राजेन्द्र-शुक्लः मङ्गलवासरे मन्त्रालये लोक-स्वास्थ्य-चिकित्सा-शिक्षा-विभागस्य विभिन्न-विषयाणां समीक्षां कृत्वा आवश्यकान् दिशा-निर्देशान् दत्तवान्।

उपमुख्यमन्त्री शुक्लः विभागीय-नियुक्ति-प्रक्रियाणां प्रगतिविषये विस्तरेण चर्चा कृतवान्। तेन निर्देशाः दत्ताः यत् सर्वाः अवशिष्टाः नियुक्तयः निर्धारित-समय-सीमायां सम्पन्नाः क्रियन्ताम्, येन स्वास्थ्य-सेवासु मानव-संसाधन-अभावः शीघ्रं निवारितुं शक्यते। तेन कर्मचारी-चयन-मण्डलेन (ईएसबी) मध्यप्रदेश-लोक-सेवा-आयोगेन (पीएससी) सह निरन्तरं सम्पर्कः समन्वयश्च धारयितुं निर्देशः दत्तः, येन नियुक्ति-प्रक्रियायां कस्यापि प्रकारस्य अनावश्यक-विलम्बः न भवेत्। सहैव सर्वेषां आवश्यक-प्रशासनिक-तकनीकी-औपचारिकतानां समये पूर्तिः सुनिश्चेतुम् उक्तम्।

उपमुख्यमन्त्री शुक्लः चिकित्सालय-सहायकानां रिक्त-पदानां नियुक्ति-सम्बद्धं प्रस्तावं शीघ्रं कर्मचारि-चयन-मण्डलं प्रति प्रेषयितुं निर्देशं दत्तवान्। सः उक्तवान् यत् एते पदाः स्वास्थ्य-संस्थानानां सुचारु-संचालनाय अत्यन्तं महत्त्वपूर्णाः सन्ति, अतः अस्मिन् विषये विलम्बः न करणीयः। तेन चिकित्साशास्त्र-महाविद्यालयेषु तथा स्वास्थ्य-विभागे नर्सिङ्ग-शिक्षकानां नियुक्ति-प्रक्रियायाः अपि समीक्षा कृता, तथा प्राथमिकतया शीघ्रं कार्यवाही सम्पन्ना भवेत् इति निर्देशः दत्तः। सः उक्तवान् यत् प्रशिक्षितः योग्यः च नर्सिङ्ग-कर्मचारी स्वास्थ्य-सेवायाः गुणवत्तायां महत्त्वपूर्णां भूमिकां निर्वहति।

उपमुख्यमन्त्री शुक्लः प्रदेशस्य स्वास्थ्य-संस्थानिषु आधुनिक-अत्याधुनिक-चिकित्सा-उपकरणानां उपलब्धिं सुनिश्चितुं योजनाबद्ध-चरणबद्ध-कार्यवाहीं कर्तुं निर्देशं दत्तवान्।

अस्यां समीक्षासभायां लोक-स्वास्थ्य-चिकित्सा-शिक्षा-विभागस्य आयुक्तः धनराजू-एस तथा अपर-संचालकः मनोज-कुमार-सरियामः उपस्थितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार