महतः उद्योगमंत्रालयस्य परामर्शदात्री समितेः उपवेशनं नूतनसंसदभवने आयोजितम्
नवदिल्ली, 25 मार्चमासः (हि.स)।केन्द्रीय-भारी-उद्योग-इस्पातमन्त्री एच.डी. कुमारस्वामी अध्यक्षतायां भारी-उद्योग-मन्त्रालयस्य (एमएचआई) परामर्शदात्री-समितेः बैठकाऽद्य बुधवासरे नूतन-दिल्ली-स्थिते नूतन-संसद-भवने आयोजिताऽभवत्। भारी-उद्योग-मन्त्रालयेन निर्
एमएचआई के परामर्शदात्री समिति की बैठक की अध्यक्षता करते एच. डी. कुमारस्वामी


नवदिल्ली, 25 मार्चमासः (हि.स)।केन्द्रीय-भारी-उद्योग-इस्पातमन्त्री एच.डी. कुमारस्वामी अध्यक्षतायां भारी-उद्योग-मन्त्रालयस्य (एमएचआई) परामर्शदात्री-समितेः बैठकाऽद्य बुधवासरे नूतन-दिल्ली-स्थिते नूतन-संसद-भवने आयोजिताऽभवत्। भारी-उद्योग-मन्त्रालयेन निर्गते विज्ञप्तौ उक्तं यत् अस्मिन् सम्मेलने मन्त्रालयस्य सचिवः कमरान-रिजवी, नीति-आयोगस्य परियोजना-निदेशिका डॉ. अंशु-भारद्वाज, तथा भारत-हेवी-इलेक्ट्रिकल्स-लिमिटेड (बीएचईएल) अध्यक्ष-प्रबन्ध-निदेशकः के. सदाशिव-मूर्ति, एवं एमएचआई, नीति-आयोग, बीएचईएल-इत्यादीनां वरिष्ठ-अधिकारीणः उपस्थिताः आसन्।

केन्द्रीय-भारी-उद्योग-इस्पातमन्त्री कुमारस्वामी उक्तवान्—प्रधानमन्त्रिणः दूरदर्शिनः नेतृत्वस्य मार्गदर्शनेन भारतं सतत-भविष्यस्य दिशि अग्रे गच्छति। ‘विकसित-भारत-२०४७’ इति योजना भारतं वैश्विक-निर्माण-शक्तिरूपेण उच्च-मूल्य-निर्यात-केंद्ररूपेण च परिवर्तयितुं व्यापक-मार्गचित्रम् अस्ति। अस्य मुख्यलक्ष्यं स्वदेशी-नवाचारस्य महदाकार-निर्माण-उत्कृष्टतायाः च माध्यमेन वैश्विक-आपूर्ति-शृंखलासु राष्ट्रं महत्त्वपूर्ण-नोडरूपेण स्थापयितुम्। दृष्टिकोणः स्पष्टः—‘मेक-इन-इण्डिया, मेक-फॉर-द-वर्ल्ड’ इति। तेन राष्ट्रनिर्माणे बीएचईएल-संस्थायाः योगदानस्य अपि प्रशंसा कृता।

अस्यां गोष्ठ्यां के. सदाशिव-मूर्ति वन्दे-भारत-परियोजनायाः प्रगतिविषये विस्तृतं प्रस्तुतीकरणं कृतवान्, यस्मिन् स्वदेशी-निर्माण-क्षमतावृद्धौ प्राप्ताः महत्त्वपूर्णाः विकासाः उपलब्धयः च प्रकाशिता अभवन्। अनन्तरं नीति-आयोगस्य परियोजना-निदेशिकया अंशु-भारद्वाज्या “सतत-हरित-ऊर्जा-प्रति संक्रमणम्” इति विषयकं प्रस्तुतीकरणं कृतम्, यस्मिन् भारतस्य सतत-कम-कार्बन-ऊर्जा-कुशल-भविष्यस्य साधनाय रणनीतिक-दृष्टिकोणः विवेचितः।

तदनन्तरं समितेः सदस्याः विचार-विमर्शे सक्रियतया सहभागिनः अभवन् तथा चर्चित-विषयेषु मूल्यवान् परामर्शान् अन्तर्दृष्टयः च प्रदत्तवन्तः।

---------------

हिन्दुस्थान समाचार