Enter your Email Address to subscribe to our newsletters

मोना-सिंह अद्यतनकाले चलचित्रेषु वेब-श्रृंखलासु च माध्यमेन दर्शकाणां मध्ये अत्यन्तं लोकप्रियतां प्राप्नोति। ‘कोहरा २’, ‘बॉर्डर २’ तथा ‘हैप्पी पटेल’ इत्येताभ्यः अनन्तरं अधुना तस्याः नूतना-श्रृंखला ‘मां का सम’ इत्यस्याः उद्घोषणा कृता। निर्मातारः अस्याः आधिकारिक-पोस्टरं प्रकाशन-तिथिं च प्रकाशितवन्तः, येन प्रशंसकानां मध्ये उत्साहः दृश्यते। अस्यां श्रृंखलायां तया सह मिहिर-आहूजा मुख्यभूमिकायां दृश्यते, निर्देशनं च निकोलस-खारकोंगोर कृतवान्।
‘मां का सम’ इति अमेजन-प्राइम-वीडियो इत्यस्य मौलिका-श्रृंखला अस्ति, यस्य प्रीमियरः ३ अप्रैल तिथौ भविष्यति। एतां कथा रविंदर-रंधावा तथा सुमरित-शाही लिखितवन्तौ। कथा अगस्त्य (मिहिर) इत्यस्य चरित्रस्य परितः परिवर्तते, यः प्रतिभाशाली गणितज्ञः अस्ति तथा जगत् संख्याभिः एल्गोरिद्म-दृष्ट्या च पश्यति।
अस्यां श्रृंखलायां मोना-सिंह विनीता इति पात्रे दृश्यते, या स्वस्य पुत्रस्य कृते आदर्श-जीवनसाथिनः अन्वेषणं करोति। मातृ-पुत्रयोः सम्बन्धं आधारीकृत्य एषा कथा सामाजिक-आर्थिक-पक्षान् अपि स्पृशति, येन दर्शकाणां कृते भावनात्मकं चिन्तनशीलं च अनुभवं दातुम् अपेक्षा अस्ति।
हिन्दुस्थान समाचार