भानुप्रतापपुरे २ अप्रैलमासे हनुमज्जन्मोत्सवः आयोज्यते
कांकेरजनपदः, २६ मार्चमासः (हि.स.)। जनपदे भानुप्रतापपुरनगरस्य श्रीराम-जानकी-हनुमान्-मन्दिरे २ अप्रेलमासे हनुमज्जन्मोत्सवः आयोज्यते। अस्मै अवसराय मन्दिर-सेवा-संघेन विविधकार्यक्रमैः सह भण्डारः अपि आयोज्यते। मन्दिर-संघस्य सदस्याः सूचितवन्तः यत् कार्यक
श्रीराम जानकी हनुमान मंदिर


कांकेरजनपदः, २६ मार्चमासः (हि.स.)। जनपदे भानुप्रतापपुरनगरस्य श्रीराम-जानकी-हनुमान्-मन्दिरे २ अप्रेलमासे हनुमज्जन्मोत्सवः आयोज्यते। अस्मै अवसराय मन्दिर-सेवा-संघेन विविधकार्यक्रमैः सह भण्डारः अपि आयोज्यते।

मन्दिर-संघस्य सदस्याः सूचितवन्तः यत् कार्यक्रमः प्रातः ५ वादने अभिषेकात् आरभ्स्यते। अनन्तरम् प्रातः ६ वादने सिंदूर-चोला-अर्पणं, ७ वादने महारार्तिकी, ८ वादने सामूहिक-हनुमान्-चालीसा-पाठः अभवत्। प्रातः १० वादने सुन्दरकाण्ड-पाठः आयोजितः।

द्वितीयाह्ने १ वादने हवन-पूजनं सम्पादितः, तथा २ वादने ५६-भोग-भण्डारस्य प्रारम्भः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता