'ऑपरेशन सिंदूर' इत्येतत् चलचित्रं महत्यां यवनिकायाम् आनेतुं चिंतनं, सममागतौ विवेकअग्निहोत्री-भूषण कुमारौ
अप्रैल-मासे २०२५ तमे वर्षे पहलगाम-प्रदेशे जातं आतङ्कवादी-आक्रमणं सम्पूर्णं देशं कम्पितवत्। अस्य आक्रमणस्य प्रत्युत्तररूपेण भारतीय-सेनया कृता सैन्य-कार्यवाही ‘ऑपरेशन-सिन्दूर’ इति नाम्ना अधुना चलचित्र-पट्टे प्रदर्शिता भविष्यति। चलचित्र-निर्मातारौ विव
विवेक अग्निहोत्री-भूषण कुमार - फोटो सोर्स एक्स


अप्रैल-मासे २०२५ तमे वर्षे पहलगाम-प्रदेशे जातं आतङ्कवादी-आक्रमणं सम्पूर्णं देशं कम्पितवत्। अस्य आक्रमणस्य प्रत्युत्तररूपेण भारतीय-सेनया कृता सैन्य-कार्यवाही ‘ऑपरेशन-सिन्दूर’ इति नाम्ना अधुना चलचित्र-पट्टे प्रदर्शिता भविष्यति। चलचित्र-निर्मातारौ विवेक अग्निहोत्री भूषण कुमारौ-भूषणकुमारस्य T-Series-टी-सीरीज्-कम्पनी च अस्मिन् विषये चलचित्रं निर्मातुं सज्जा अस्ति, येन चलचित्र-जगति उत्सुकता वर्धिता।

एतच्चलचित्रं सेवानिवृत्त-लेफ्टिनेंट्-जनरल् केजेएस ‘टाइनी’ ढिल्लों इत्यस्य ‘ऑपरेशन-सिन्दूर द अनटोल्ड स्टोरी ऑफ इण्डियाज डीप स्ट्राइक्स् इनसाइड पाकिस्तान’ इति ग्रन्थे आधारितः भविष्यति। निर्देशकः विवेक-अग्निहोत्री उक्तवान् यत् एषा कथा कालस्य आवश्यकता अस्ति तथा अस्याः सम्पूर्ण-सत्येन सह दर्शकेभ्यः प्रस्तुति आवश्यकाऽस्ति। तेन उक्तं यत् चलचित्रे साहसम्, रणनीतिः तथा व्यावसायिक-दृष्टिकोणः प्रमुखतया दर्शिताः भविष्यन्ति, तथा च एतत् एकं रोमाञ्चकं सिनेमाई-अनुभव-रूपेण प्रस्तुतं भविष्यति।

एतत् चलचित्रं टी-सीरीज तथा आईएम्-बुद्धा-प्रोडक्शन् इत्येतयोः ध्वजयोः अन्तर्गतं निर्मीयते। अग्निहोत्री स्पष्टं कृतवान् यत् तस्य उद्देश्यः कोलाहलं कर्तुं न, अपि तु तथ्यैः स्पष्टतया च अस्याः कथायाः प्रस्तुतीकरणम् अस्ति। अधुना पर्यन्तं चलचित्रस्य नायक-नायिकादीनां चयनं तथा विमोचन-तिथिः विषये कापि आधिकारिक-घोषणा न कृता, तथापि अस्मिन् महति राष्ट्रवादी-परियोजनायां प्रति दर्शकेषु महान् उत्साहः दृश्यते।

हिन्दुस्थान समाचार