गुण्डाराजं न सह्यते, आरक्षकाः कुर्वन्तु कठोराज्ञाम् - मुख्यमन्त्री
गुण्डाराज सम्बद्ध विषयेषु मुख्यमन्त्री योगी आदित्यनाथः पुलिस-अधिकारिभ्यः दत्ताः निर्देशाः
जमानत पर रिहा होकर वादी को धमकाने वालों की निरस्त कराएं जमानत: सीएम योगी*


जमानत पर रिहा होकर वादी को धमकाने वालों की निरस्त कराएं जमानत: सीएम योगी*


जमानत पर रिहा होकर वादी को धमकाने वालों की निरस्त कराएं जमानत: सीएम योगी*


जमानत पर रिहा होकर वादी को धमकाने वालों की निरस्त कराएं जमानत: सीएम योगी*


जनतादर्शने मुख्यमन्त्री श्रुतवान् 200 जनानां समस्याः, समाधानस्य प्रदत्तम् आश्वासनम्

गोरखपुरम्, 27 मार्चमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः गोरखपुर-प्रवासे निरन्तरं द्वितीये दिने शुक्रवासरे प्रातः गोरखनाथमन्दिरे आयोजिते 'जनता दर्शने' विभिन्नजनपदेभ्यः आगतानां जनानां समस्याः अशृणोत्, समाधानस्य आश्वासनं च दत्तवान्। अस्मिन् अवसरे कतिपयैः उग्रपुरुषैः (दबंगजनैः) पीडितानां दुर्बलवर्गाणां तक्रारं श्रुत्वा मुख्यमन्त्री आरक्षकाधिकारिणः स्पष्टं प्रोक्तवान् यत्— गुण्डाराजं न सह्यते, तादृशानां तत्त्वानां विरुद्धं तत्क्षणं कठोरा कार्यवाही क्रियताम्। यदि कश्चित् अभियुक्तः प्रतिभूत्या (जमानत) मुक्तः भूत्वा वादिनं तर्जयति, तर्हि तस्य प्रतिभूति-निरस्तीकरणस्य प्रक्रिया प्रारभ्यताम्।

​गोरखनाथमन्दिरस्य महन्त-दिग्विजयनाथ-स्मृतिभवनस्य बहिः आयोजिते जनता-दर्शने मुख्यमन्त्री योगी आदित्यनाथः प्रायः २०० जनानां समस्याः अशृणोत्। सः सर्वाणि आवेदनपत्राणि सम्बन्धित-अधिकारिभ्यः प्रेषयन् त्वरितं सन्तोषजनकं च निस्तारणं कर्तुं निर्दिष्टवान्। सः उक्तवान् यत् प्रत्येकस्य जनस्य समस्यायाः समाधानं सर्वकारस्य संकल्पः अस्ति। अधिकारिणः एतत् सुनिश्चितं कुर्वन्तु यत् भेदभावं विना सर्वेभ्यः न्यायः मिलतु। सर्वस्मै पात्राय जनकल्याणकारी-योजनानां लाभः मिलतु, आवश्यकतानुसारं चिकित्सा-व्यवस्था भवेत्, तथा च भू-माफिया एवं उग्रपुरुषाणां विरुद्धं कठोरदण्डः दीयताम्। अधिकारिणः निर्देशयन् मुख्यमन्त्री जनान् आश्वासितवान् यत् सर्वकारः प्रत्येकस्य पीडितस्य समस्यां परिहर्तुं कटिबद्धः अस्ति।

​जनता-दर्शने गम्भीर-रोगाणां चिकित्सार्थं आर्थिक-साहाय्यं प्रार्थितवद्भिः जनैः सह मुख्यमन्त्री अवदत् यत् धनस्य अभावेन कस्यापि चिकित्सा न रुद्धव्यः। चिकित्सालयात् चिकित्सायाः प्राक्कलन-पत्रे प्राप्ते सति सर्वकारः धनं प्रदास्यति। जनता-दर्शने परिजनैः सह आगतान् बालकान् मुख्यमन्त्री स्नेहेन चॉकलेट्-मिष्टान्नं दत्त्वा आशीर्वादं च दत्तवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता