महिला-मण्डलेन रामनवमी-शोभायात्रायां बलं प्रदर्शितम्
राँचीनगरम्, २७ मार्चमासः (हि.स.) - रामनवमी-महापर्वणि श्रीमहावीर-मण्डल महिला-समित्या शुक्रवासरे राँचीनगरे भव्या शोभायात्रा आयोजिता। अस्मिन् अवसरे अनेकाः महिलाः उत्साहपूर्वकं भागं गृहीत्वा बलं प्रदर्शितवत्यः। महिला-मण्डलस्य उत्साहं दृष्ट्वा सम्पूर्णम
जुलूस में शामिल महिलाएं


राँचीनगरम्, २७ मार्चमासः (हि.स.) - रामनवमी-महापर्वणि श्रीमहावीर-मण्डल महिला-समित्या शुक्रवासरे राँचीनगरे भव्या शोभायात्रा आयोजिता। अस्मिन् अवसरे अनेकाः महिलाः उत्साहपूर्वकं भागं गृहीत्वा बलं प्रदर्शितवत्यः। महिला-मण्डलस्य उत्साहं दृष्ट्वा सम्पूर्णमार्गे भक्त्याः उल्लासस्य च अपूर्वं वातावरणं सृष्टम्।

शोभायात्रायाम् विभिन्नेषु स्थानेषु श्रद्धालुभिः शोभायात्रायाः भव्यं स्वागतं कृतम्। स्थाने स्थाने पुष्पवर्षा, जलपानं, अन्याः व्यवस्थाः च आयोजनेन सुसज्जिताः। एतेन सम्पूर्णमार्गे धार्मिक-उत्साहः तथा भ्रातृत्वभावनायाः च संदेशः प्रसरितः।

अस्मिन् अवसरे अध्यक्षा शोभायादवः इत्यनया सहितम् आयोजकाः उक्तवन्तः यत् – एतादृशानि आयोजनानि समाजे धार्मिक-आस्थां, एकतां, सहयोगं समरसतां च दृढीकुर्वन्ति। कार्यक्रमस्य सफलतया आयोजनाय सर्वे श्रद्धालवः सहयोगिनश्च महत्त्वपूर्णं योगदानं दत्तवन्तः।

महावीर-मण्डल-महिला-समित्या सर्वे प्रतिभागिनः सहयोगिनश्च प्रति आभारं व्यक्तम्, भविष्येऽपि एतेषु आयोजनेषु सततं भागं गृहीतुम् आग्रहः कृतः।

शोभायात्रायाः समितेः अध्यक्षा शोभायादवः, उपाध्यक्षा सविता देवी, महासचिवा गीतासिंहः, सचिवा संध्या देवी इत्येताभिः च सह शताधिकाः महिलाः भागं गृहीतवत्यः।

हिन्दुस्थान समाचार / अंशु गुप्ता