प्रधानमंत्रि-कुसुम योजनया राजस्थाने सौरोर्जाक्रांतिः, गांव-ढाणी प्रकाशिता,ग्रामीण अर्थव्यवस्थायाम् उद्यमितायाः नूतनयुगः शुभारब्धः
जयपुरम्, 27 मार्चमासः (हि.स.)प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रवर्तिता प्रमुखा योजना “पीएम-कुसुम-योजना” अन्तर्गत स्थापिताः ग्रिड-संयुक्ताः विकेन्द्रिताः सौर-ऊर्जा-उत्पादन-संयन्त्राः प्रदेशस्य ऊर्जा-क्षेत्रे नूतनां क्रान्तिं जनितवन्तः। एतेषां संयन
मुख्यमंत्री भजनलाल शर्मा


जयपुरम्, 27 मार्चमासः (हि.स.)प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रवर्तिता प्रमुखा योजना “पीएम-कुसुम-योजना” अन्तर्गत स्थापिताः ग्रिड-संयुक्ताः विकेन्द्रिताः सौर-ऊर्जा-उत्पादन-संयन्त्राः प्रदेशस्य ऊर्जा-क्षेत्रे नूतनां क्रान्तिं जनितवन्तः। एतेषां संयन्त्राणां विद्युत्-उत्पादनात् कृषकाणां दिवा-सिंचनस्य स्वप्नं साकारं जातम्।

पीएम-कुसुम-योजनया एकस्मिन् पक्षे ग्रामाः, ढाणयः तथा गृहाणि प्रकाशितानि भवन्ति, अपरस्मिन् पक्षे ग्रामीण-अर्थव्यवस्थायां उद्यमशीलतायाः नूतनः युगारम्भः जातः। अनेन अन्नदाता कृषकः ऊर्जादाता भाग्यविधाता च अभवत्। अनेन कोयल-आधारित-विद्युत्-निर्भरता न्यूनीकृता तथा सस्ती प्रदूषणरहित सौर-ऊर्जायाः कृषि-क्षेत्रे उपयोगः वर्धितः।

राजस्थान-प्रदेशस्य ग्रामेषु ढाणिषु च कुसुम-योजनायाः कम्पोनेंट-ए तथा कम्पोनेंट-सी अन्तर्गतं अद्यावधि 3585 मेगावाट-क्षमतायाः 1617 सौर-ऊर्जा-संयन्त्राः स्थापिताः। तेषु 3462 मेगावाट-क्षमतायाः 1525 संयन्त्राः केवलं गत-द्विवर्ष-त्रिमास-अवधौ स्थापिताः। एते आँकडाः मुख्यमन्त्री भजनलाल शर्मा नेतृत्वे राज्य-सरकारेण प्रदत्त-प्रोत्साहनस्य तथा जनभागीदारी-सफलतायाः द्योतकाः सन्ति।

विभागीय-सूचनानुसारं कम्पोनेंट-ए अन्तर्गतं 686 मेगावाट-क्षमतायाः 496 संयन्त्राः स्थापिताः, यस्मिन् राजस्थानं राष्ट्रे प्रथम-स्थानं धारयति। कम्पोनेंट-सी अन्तर्गतं 2899 मेगावाट-क्षमतायाः 1121 संयन्त्राः स्थापिताः, यस्मिन् द्वितीय-स्थानं प्राप्नोति।

केन्द्रीय-विद्युत्-मन्त्री मनोहर लाल द्वारा अस्मिन् वर्षे जनवरी-मासे दिल्ली-नगरे आयोजिते अखिल-भारतीय-डिस्कॉम्स-संघस्य वार्षिक-समारोहे श्रेष्ठ-फीडर-स्तरीय-सौरिकीकरण-उपलब्ध्यर्थं राजस्थान-डिस्कॉम्स स्वर्ण-पुरस्कारेण सम्मानिताः।

मुख्यमन्त्री भजनलाल शर्मा वर्ष 2027 पर्यन्तं कृषकानां दिवा-सिंचनार्थं विद्युत्-प्रदानस्य संकल्पं कृतवान्। अस्य संकल्पस्य सिद्धौ एषा योजना महत्त्वपूर्णां भूमिकां निर्वहति। एतेषां संयन्त्राणां विद्युत्-उत्पादनात् 2,29,000 अधिकाः कृषकाः दिवा-कृषिकर्मणि विद्युत्-लाभं प्राप्नुवन्ति।

अद्यतनकाले संयन्त्र-स्थापन-गति तीव्रा अभवत्। जयपुर, जोधपुर, अजमेर-विद्युत्-वितरण-क्षेत्रेषु प्रतिदिनं त्रयः चत्वारः वा नूतन-संयन्त्राः स्थापिताः भवन्ति, येन प्रतिदिनं दश मेगावाट-क्षमता ग्रिडे योज्यते। अस्मिन् वर्षे जनवरी-मासे 286 मेगावाट तथा फरवरी-मासे 295 मेगावाट क्षमता ग्रिडे संयोजिता।

कम्पोनेंट-ए अन्तर्गतं सर्वाधिकाः 86 संयन्त्राः बीकानेर-जिले स्थापिताः। तदनन्तरं जोधपुरे 34 तथा झुंझुनूं-क्षेत्रे 32 संयन्त्राः स्थापिताः। कम्पोनेंट-सी अन्तर्गतं फलौदी, जोधपुर, बीकानेर-क्षेत्रेषु सहस्रशः सौर-पम्पाः ऊर्जीकृताः।

योजनायाः सफल-क्रियान्वयनार्थं त्रयः विद्युत्-वितरण-निगमाः निरन्तरं योगदानं कुर्वन्ति। अवार्ड-पत्र-प्रदानं, संयन्त्र-स्थापनं, विद्युत्-क्रय-अनुबंधः इत्यादीनां प्रक्रियाणां शीघ्र-निपटानं क्रियते।

एसओपी-नियमानुसारं मीटर-परीक्षणं, प्रसारण-रेखा-निर्माणं, ट्रांसफार्मर-सम्बद्धाः प्रक्रियाः समये पूर्णाः क्रियन्ते। 33 केवी-ग्रिड-उपकेन्द्रात् पञ्च-किलोमीटर-पर्यन्तं कृषकाः, समूहाः, सहकारी-संस्थाः च अधिकतमं 5 मेगावाट-क्षमतायाः संयन्त्रं स्थापयितुं शक्नुवन्ति।

सौर-ऊर्जा-उत्पादकाः स्व-उत्पादितां विद्युत्-वितरण-निगमेभ्यः क्रय-अनुबंधेन निर्दिष्ट-दरेण प्रददति। फरवरी-मासे 4001.29 लक्ष-यूनिट-सौर-ऊर्जा निगमेषु प्रदत्ता। स्थानीय-उपयोगेन वितरण-हानिः न्यूनता प्राप्नोति।

एषा योजना सहस्राधिकान् नूतन-सौर-उद्यमिनः ऊर्जा-उत्पादने संयोजितवती। तेषां आय-वृद्धिः अभवत्, जीवन-स्तरः उन्नतः। अनुपजाऊ-भूमेः उपयोगः सुनिश्चितः जातः तथा राष्ट्रस्य ऊर्जा-सुरक्षायां सौर-ऊर्जायाः योगदानं वर्धितम्।

पीएम-कुसुम-योजनया राजस्थान-कृषकाः सशक्ताः आत्मनिर्भराश्च अभवन्। राम नवमी-पावन-अवसरे 12 सौर-ऊर्जा-संयन्त्राणि (23.60 मेगावाट-क्षमता) स्थापितानि। जयपुर, अजमेर, जोधपुर-क्षेत्रेषु चत्वारः-चत्वारः संयन्त्राः स्थापिताः।

एते संयन्त्राः बूंदी, अलवर, कोटपूतली, अजमेर, नागौर, डीडवाना, सीकर, बीकानेर, बालोतरा, जोधपुर इत्येषु क्षेत्रेषु स्थापिताः सन्ति। एकस्मिन् काले 12 संयन्त्राणां ग्रिड-संयोगेन 2000 अधिकाः कृषकाः दिवा-कृषिकर्मणि विद्युल्लाभं प्राप्स्यन्ति।-----------

हिन्दुस्थान समाचार