हर्बल-वर्णान् स्वीकरोतु, रासायनिक-वर्णेभ्यः दूरं तिष्ठन्तु — डॉ.युगल-राजपूत:
कानपुरनगरम्, ०२ मार्चमासः (हि.स.)। रागै: उमङ्गैश्च परिपूर्णे होली-पर्वणि अल्पा अपि असावधानी त्वचायाः स्वास्थ्यस्य च समस्यां जनयितुं शक्नोति। आपणेषु विक्रीयमाणाः रासायनिक-युक्ताः रागा: अनेकवारं अलर्जी, दाहं, कण्डूं च उत्पादयन्ति। एते रागा: यदि नेत्र
डॉ युगल राजपूत का छायाचित्र


कानपुरनगरम्, ०२ मार्चमासः (हि.स.)। रागै: उमङ्गैश्च परिपूर्णे होली-पर्वणि अल्पा अपि असावधानी त्वचायाः स्वास्थ्यस्य च समस्यां जनयितुं शक्नोति। आपणेषु विक्रीयमाणाः रासायनिक-युक्ताः रागा: अनेकवारं अलर्जी, दाहं, कण्डूं च उत्पादयन्ति। एते रागा: यदि नेत्रयोः प्रविशन्ति, तर्हि शोथ-दाहयोः समस्या अपि वर्धते। एतद्विषये डॉ.युगलराजपूत:, चिकित्सा-महाविद्यालयस्य चर्म-रोग-विभागस्य सहायक-प्राध्यापकेन सह संवादः कृतः।

दीप्तवर्णाः दर्शने रम्याः, प्रभावे तु हानिकारकाः

होली-पर्वणि बालकेभ्यः आरभ्य वृद्धपर्यन्तं सर्वेषां मध्ये विशेषः उत्साहः दृश्यते। जनाः परस्परं गुलाल-रागान् अर्पयित्वा उत्सवस्य हर्षं अनुभवन्ति। चिकित्सकानां मतानुसारं, आपणेषु हर्बल-वर्णैः सह रासायनिक-तत्त्वैः निर्मिताः दीप्त-वर्णाः अपि निर्विघ्नं विक्रीयन्ते। एते वर्णाः दर्शने आकर्षकाः भवन्ति, किन्तु तेषु विद्यमानाः केमिकल-पदार्थाः त्वचायाः ऊर्ध्व-स्तरं प्रभावितवन्तः। कदाचित् एतेन रक्त-चिह्नानि, दाहः, कण्डूः, रूक्षता इत्यादयः समस्याः जायन्ते, याः अनन्तरं चिकित्सोपचारस्य आवश्यकतां जनयन्ति।

होली-क्रीडनात् पूर्वं पश्चात् च विशेषा सावधानता

चर्म-रोग-विभागस्य सहायक-प्राध्यापकः डॉ.युगल-राजपूतः अवदत् यत्— होली-क्रीडायाः निषेधः नास्ति, किन्तु सावधानता अत्यावश्यकी अस्ति। राग-क्रीडनात् पूर्वं सम्पूर्ण-शरीरे मॉइस्चराइज़र, नारिकेल-तैलं, सर्षप-तैलं, जैतून-तैलं अथवा शीत-क्रीम लेपनेन रागा: त्वचायां गहनतया न स्थिरीभवन्ति, पश्चात् च तेषां निष्कासनं सुलभं भवति।

सः अवदत् यत्— राग-निष्कासनाय पुनः पुनः फेनकस्य अथवा क्षालनचूर्णस्य उपयोगेन त्वचायाः प्राकृतिक-आर्द्रता नश्यति, येन दाहः वर्धते। अतः मृदु-क्लींजरः अथवा दधि-प्रयोगः इव गृह्य-उपायाः अधिकं सुरक्षिताः मन्यन्ते।

येषां जनानां श्वास-रोगः अथवा दमा अस्ति, ते उड्डीयमान-रागेभ्यः दूरं भवन्तु, यतः एते रागा: श्वसन-नलिकायां प्रविश्य कष्टं वर्धयितुं शक्नुवन्ति। होली-समये नेत्र-सुरक्षा अपि अनिवार्या अस्ति; यदि रागा: नेत्रयोः प्रविशन्ति, तर्हि तानि शीघ्रं शुद्ध-जलेन प्रक्षालयन्तु।

एतानि विशेषतया स्मर्तव्यानि

होली-क्रीडनात् पूर्वं सम्पूर्ण-शरीरे मॉइस्चराइज़रं तैलं वा अवश्यमेव प्रयुञ्जीत। मुखे मृदु-क्रीम-इत्यस्य अथवा सुरक्षित-रजत-वर्णस्य प्रयोगः कर्तुं शक्यते। रासायनिक-वर्णेभ्यः परिहरतु, हर्बल-वर्णान् प्राथमिकतया स्वीकरोतु।राग-निष्कासनाय त्वचां बलात् न मर्दयेत्।फेनक-क्षालनचूर्णयोः अति-प्रयोगं न कुर्यात्।

श्वास-दम-पीडिताः रागेभ्यः दूरीं पालयन्तु।मुखात् राग-अपनयने दधि-इत्यादीन् गृह्य-उपायान् प्रयुञ्जीत।यदि रागा: नेत्रयोः प्रविशन्ति, तर्हि तत्क्षणं शुद्ध-जलेन प्रक्षालनं कुर्यात्।

हिन्दुस्थान समाचार / अंशु गुप्ता