अद्यैव अगप-दलेन सह गठबन्धनं सम्भवति; बीपीएफ-दलेन अपि सम्भावना, यूपीपीएल-दलेन चर्चा भविष्यति — मुख्यमन्त्री
गुवाहाटीनगरम्, ०४ मार्चमासः (हि.स.)। असम–राज्यस्य मुख्यमन्त्री हिमंतबिस्व: सरमा बुधवासरे सङ्केतं दत्तवान् यत् असमगणपरिषद् (अगप)–दलेन सह गठबन्धनं अद्यैव अन्तिमरूपं प्राप्नोति इति। तेन अन्यैः क्षेत्रीय–दलैः सह अपि सहकार्यस्य सम्भावना व्यक्ता। होली–उ
Assam CM Dr Himanta Biswa Sarma addressing a press conference. मुख्यमंत्री डॉ हिमंत बिस्व सरमा


गुवाहाटीनगरम्, ०४ मार्चमासः (हि.स.)। असम–राज्यस्य मुख्यमन्त्री हिमंतबिस्व: सरमा बुधवासरे सङ्केतं दत्तवान् यत् असमगणपरिषद् (अगप)–दलेन सह गठबन्धनं अद्यैव अन्तिमरूपं प्राप्नोति इति। तेन अन्यैः क्षेत्रीय–दलैः सह अपि सहकार्यस्य सम्भावना व्यक्ता।

होली–उत्सवे सहभागं कृत्वा पत्रकारै: सह संवादे मुख्यमन्त्रिणा उक्तं यत् अगप–दलेन सह वार्ता अन्तिम–चरणे अस्ति, शीघ्रमेव औपचारिकी–घोषणा अपि क्रियेत। सः विश्वासं व्यक्तवान् यत् एतत् गठबन्धनं राज्ये वर्तमानं सत्तारूढ–गठबन्धनं अधिकं सुदृढं करिष्यति।

मुख्यमन्त्री अवदत् यत् बोडोलैंड-पीपुल्स-फ्रंट (बीपीएफ)–दलेन सह गठबन्धनस्य सम्भावना अस्ति। तदतिरिक्तं यूनाइटेड पीपुल्स पार्टी लिबरल (यूपीपीएल)–दलेन सह अपि चर्चा भविष्यति। व्यापक–राजनैतिक–स्थैर्यं विकासं च दृष्ट्वा विभिन्न–दलैः सह संवादः क्रियते इति सः अवदत्।

सः स्पष्टं कृतवान् यत् आसन–विभाजनं समेत्य अन्येषु विषयेषु सहयोगी–दलैः सह पारस्परिक–सम्मत्या निर्णयाः ग्रहीष्यन्ते।

हिन्दुस्थान समाचार / Dheeraj Maithani