Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, ०४ मार्चमासः (हि.स.) — उमर-अब्दुल्ला बुधवासरे अत्र धार्मिक–नेतृभिः नागरिक–समाजस्य सदस्यैश्च सह साक्षात्कारं कृत्वा, अमेरिका–इजराइल–देशयोः वायु–आक्रमणे ईरान–देशस्य सर्वोच्च–नेतुः अयातुल्ला-अली-खामेनेई–महोदयस्य निधनानन्तरं पश्चिम–एशियायां उत्पन्नायाः स्थितेः विषये विचार–विनिमयं कृतवान्।
मुख्यमन्त्री कार्यालय (सीएमओ)–इत्यस्य वक्तव्ये उक्तं यत्— “पश्चिम–एशियायां सम्प्रति घटनाक्रमाणां दृष्ट्या अद्य मुख्यमन्त्रिणा श्रीनगरे धार्मिक–नेतृभिः नागरिक–समाजस्य सदस्यैश्च सह संवादः कृतः। उपस्थितैः स्थितेः विषये चिन्ता प्रकटिता, ईरानदेशे घटितेषु मृत्युषु शोकश्च व्यक्तः।” सभायां मुख्यमन्त्रिणा जम्मू–कश्मीर–प्रदेशे शान्तेः सौहार्दस्य च संरक्षणस्य महत्त्वं विशेषतया प्रतिपादितम्।जनानां दुःखं स्वीकुर्वन् तेन अपि आहूतं यत्— “शोकस्य अभिव्यक्तिः शान्तिपूर्णा उत्तरदायित्वयुक्ता च भवेत्।” अस्यां सभायां दिवंगताय अयातुल्ला-अली-खामेनेई–महोदयाय, सम्प्रति सैन्य–आक्रमणेषु प्राणान् त्यक्तवताम् अन्येषां च जनानां कृते विशेष–प्रार्थना अपि कृता। मुख्यमन्त्री–कार्यालयेन अग्रे अपि उक्तं यत्— “प्रतिभागिनः शान्तये प्रार्थनां कृत्वा स्थैर्यस्य आशां व्यक्तवन्तः।”
हिन्दुस्थान समाचार / अंशु गुप्ता