Enter your Email Address to subscribe to our newsletters

जयपुरम्, 04 मार्चमासः (हि.स.)।
सिविल लाइंस क्षेत्रे बुधवासरे होली पर्वणः उल्लासः उत्साहः सामाजिकसमरसताया च सुन्दरः संगमः दृष्टः। गोविंदपुरी स्थिते सेवा भवन कार्यालये विधायकः गोपाल शर्मा इत्यस्य नेतृत्वे “समरस होली के रंग से सिविल लाइंस के संग” इति विषयेन होली मिलन समारोहः आयोजितः। अस्मिन् कार्यक्रमे बहुसंख्यया कार्यकर्तारः स्थानीयनिवासिनः भाजपा पदाधिकारिणः पूर्व तथा निवर्तमान पार्षदाः गणमान्यनागरिकाश्च सहभागीभूताः।
कलाकारवसतेः सूरज सपेरा तथा तस्य दलस्य लोकप्रस्तुतयः पारम्परिकं रंगं प्रसारितवन्तः। चंग वाद्यस्य निनादः गुलालस्य सुगन्धः फाल्गुनी लोकगीतानां ध्वनिः तथा ठंडाई पेयस्य माधुर्यम् कार्यक्रमं स्मरणीयं कृतवान्। विधायकः गोपाल शर्मा सर्वान् तिलकं कृत्वा गुलालं लिप्त्वा च आलिङ्ग्य शुभकामनानां आदानप्रदानं कृतवान्।
अस्मिन् अवसरे विधायकः गोपाल शर्मा अवदत् यत् होली केवलं रंगानां पर्व नास्ति, अपितु सामाजिकसमरसतायाः एकतायाः आत्मीयत्वस्य च प्रतीकः अस्ति। तेन उक्तं यत् प्रधानमंत्रिणो नरेंद्र मोदिनो मार्गदर्शने तथा मुख्यमंत्री भजनलाल शर्मा इत्यस्य नेतृत्वे राजस्थान राज्यं तथा सिविल लाइंस क्षेत्रं राष्ट्रस्य प्रगतियात्रायां सक्रियां भूमिकां निरन्तरं निर्वक्ष्यति।
---------------
हिन्दुस्थान समाचार