Enter your Email Address to subscribe to our newsletters

बिलासपुरम् 04 मार्चमासः (हि.स.)।
राज्यपालः रमेन डेका अद्य बुधवासरे, 4 तथा 5 मार्च दिवसे, बिलासपुर तथा मुंगेली जिल्लयोः प्रवासे भविष्यति। निर्धारितकार्यक्रमानुसारं राज्यपालः अद्य सायं 4:30 वादने रायपुरस्थित लोकभवनात् प्रस्थित्य मुंगेली जिल्लायाः चंदखुरीस्थितं विश्रामगृहं गमिष्यति। ततः सायं 6 वादने बिलासपुरस्थितं शिवतराई रिसोर्ट (बैगा रिसोर्ट) गन्तुं प्रस्थितः भविष्यति। रात्रिविश्रामः बिलासपुरस्थिते शिवतराई रिसोर्टे भविष्यति।
5 मार्च दिवसे प्रातः 10:30 वादने राज्यपालः शिवतराई रिसोर्टात् शिवतराई ग्रामं प्रति प्रस्थितः भविष्यति, यत्र सः बैगा जनजातेः जनैः सह मिलित्वा तेषां जनजीवनम्, आजीविका तथा शासकीययोजनानां क्रियान्वयनसम्बद्धां सूचनां ज्ञास्यति। ततः 11 वादने सः अचानकमार टाइगर रिजर्वं प्रति प्रस्थानं करिष्यति तथा तत्र सफारी कार्यक्रमे सहभागी भविष्यति। मध्याह्ने 12:35 वादने पुनः शिवतराई रिसोर्टं प्रत्यागमिष्यति।
सायं 4 वादने राज्यपालः श्री डेका रतनपुरस्थितं प्रसिद्धं महामाया देवीमन्दिरं प्रति प्रस्थितः भविष्यति तथा तत्र दर्शनपूजनं करिष्यति। ततः पश्चात् सः मुंगेली जिल्लस्य चंदखुरी विश्रामगृहं गमिष्यति तथा तस्मात् सायं 7 वादने रायपुरं प्रति प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार