होल्युत्तरं शुभारप्स्यते गणगौर पूजनं, सुवासिनीषु कौमारीकन्यासु च उत्साहः
जयपुरम्, 04 मार्चमासः (हि.स.)। रंगानां पर्व होल्याः अनन्तरं अधुना राजधानी नगरे सुहागस्य प्रतीकरूपेण मान्यं गणगौर पूजनम् आरब्धम्। राजशाही परम्परया सम्बद्धम् एतत् पर्व विवाहिताभिः एव न, अपि तु कुमारिकाभिः अपि हर्षोल्लासेन श्रद्धया च आचर्यते। मान्य
होली के बाद शुरू हुआ गणगौर पूजन, सुहागिनों और कुंवारी कन्याओं में उत्साह


जयपुरम्, 04 मार्चमासः (हि.स.)।

रंगानां पर्व होल्याः अनन्तरं अधुना राजधानी नगरे सुहागस्य प्रतीकरूपेण मान्यं गणगौर पूजनम् आरब्धम्। राजशाही परम्परया सम्बद्धम् एतत् पर्व विवाहिताभिः एव न, अपि तु कुमारिकाभिः अपि हर्षोल्लासेन श्रद्धया च आचर्यते।

मान्यतानुसारं विवाहिताः महिलाः पत्या दीर्घायुषः सुखसमृद्धेः च कामनया गणगौर व्रतं धारयित्वा विशेषं पूजा अर्चनां कुर्वन्ति, यदा तु कुमारिकाः योग्यवरप्राप्तेः अभिलाषया एतत् व्रतं आचरन्ति। होलिका दहनस्य अनन्तरदिनात् एव महिलाभिः गणगौर पूजनस्य क्रमः आरब्धः।

बुधवासरस्य प्रातःकाले नवविवाहिताः महिलाः कुमारिकाश्च उपवनं गत्वा पुष्पाणि दूर्वां च संगृह्य आनितवन्त्यः। गृहेषु पवित्रं जलं कलशे पूरयित्वा ईसर गणगौर प्रतिमायाः समक्षं विधिपूर्वकं पूजनं कृतम्। अस्मिन् काले महिलाभिः पारम्परिकगीतानां स्वरैः सम्पूर्णं वातावरणं भक्तिमयं कृतम्। “गौर ये गणगौर माता खोल किवाड़ी बाहर ऊबी थारी पूजन वाली” तथा “गोर गोर गोमती जोड़ा पूजा पार्वती का” इत्यादयः लोकगीताः अपि निरन्तरं गूंजिताः।

राजधानी नगरे अनेकस्थानेषु सामूहिकरूपेण अपि गणगौर पूजनं क्रियते। श्रीमन्न नारायण प्रन्यासस्य पक्षतः ढहर बालाजी स्थिते श्री मन्न नारायण धाम इति स्थले महिलाभिः सामूहिकं गणगौर पूजनं क्रियते। अत्र प्रतिदिनं बहुसंख्यया श्रद्धालवः आगत्य ईसर गौर पूजनं कुर्वन्ति।

गणगौर पर्वणः आरम्भेन सह नगरे पारम्परिकोत्सवानां श्रृंखला अपि आरब्धा। आगामिषु दिनेेषु गणगौरस्य शोभायात्राया विशेषकार्यक्रमाणां च आयोजनार्थं सज्जता अपि तीव्रता प्राप्नोति। राजधानी नगरे आस्था परम्परा संस्कृति च एषः सुन्दरः संगमः पुनः दृश्यते।

---------------

हिन्दुस्थान समाचार