अनूपपुरम् - डफली–नादैः फाग–गीतैश्च सह होली–उत्सवस्य निनाद:, गुलालस्य प्रचुर-वर्षा, सुरक्षा–व्यवस्थाः च सुदृढाः
अनूपपुरनगरम्, ०४ मार्चमासः (हि.स.)। मध्यप्रदेशस्य अनूपपुर जनपदान्तर्गतं समग्रे जनपदे बुधवासरे होली–महोत्सवः महता हर्षोल्लासेन उत्साहेन च आचरितः। अनूपपुर–मुख्यालयेन सह कोतमा, भालूमाड़ा, बदरा, राजनगर, बिजुरी, रामनगर, जैतहरी इत्यादिषु क्षेत्रेषु तथा च
काेतमा में हाेली


राज्यमंत्री संग हाेली


सांसद संग हाेली


हाेरियार हाेली खेलते हुए


कलेक्टर निवास प्रशासनिक अमला हाेली खेलने के बाद


अनूपपुरनगरम्, ०४ मार्चमासः (हि.स.)। मध्यप्रदेशस्य अनूपपुर जनपदान्तर्गतं समग्रे जनपदे बुधवासरे होली–महोत्सवः महता हर्षोल्लासेन उत्साहेन च आचरितः। अनूपपुर–मुख्यालयेन सह कोतमा, भालूमाड़ा, बदरा, राजनगर, बिजुरी, रामनगर, जैतहरी इत्यादिषु क्षेत्रेषु तथा च पुष्पराजगढ़–ग्रामीणाञ्चलेषु अपि रंगाणां वर्षा फाग–गीतैः सह दृष्टा। मार्गेषु उपमार्गेषु च सर्वत्र गुलाल–रङ्गयोः वर्षा आसीत्। लघुबालकाः वर्णजलपूर्ण–गुब्बकैः परस्परं क्षेपणं कृत्वा होली–उत्सवस्य परमानन्दं प्राप्तवन्तः।

होलिका–दहनस्य अनन्तरं चन्द्रग्रहण–कारणात् आंशिक–होलिका आचरिता, अद्य तु रंगाणां महापर्वणि जनानां उत्साहः शिखरं प्राप्तवान्। प्रभाते एव बालाः वृद्धाः च सर्वे वर्णैः आवृताः दृश्यन्ते स्म। बालक–समूहाः पिचकारिभिः गुलालेन च वातावरणं रमणीयं कृतवन्तः, यूनां समूहाः तु “होली है” इति घोषैः वीथिषु उत्सवं वर्धितवन्तः। अपराह्णे रंग–उत्साहः अधिकं गभीरः अभवत्। जनपदस्य विविधेषु अञ्चलेषु परम्परागतं बहुरूपिया–नृत्यं जनाकर्षणस्य केन्द्रं जातम्, यत् द्रष्टुं बहुल: सम्मर्द: समायात:। अबीर–गुलालस्य मध्ये जनाः डफली–नादेषु टिमकी–मधुर–ध्वनिषु च प्रमुदिताः नृत्यन्तः दृश्यन्ते स्म। स्थाने स्थाने आयोजितेषु होली–मिलन–समारोहेषु बुन्देली–बघेली–फाग–गीतानां निनादः श्रूयते स्म।

एतस्मिन्नेव अवसरे हर्षल-पंचोली–महाभागस्य निवासे विशेषः होली–मिलन–कार्यक्रमः आयोजितः, यत्र जनपदस्य विविध–विभागानां अधिकारिणः कर्मचारिणश्च उपस्थिताः परस्परं गुलालं लिप्त्वा पर्व–शुभाशयाः अयच्छन्। सौहार्दपूर्णे वातावरणे प्रशासनिकेन अपि उत्सवस्य आनन्दः सहभाग: कृतः। उत्सव–हर्षे किञ्चिदपि विघ्नं न भवेत् इति कारणात् आरक्षक–प्रशासनं पूर्णतया सज्जं आसीत्।

आरक्षक–अधीक्षकस्य मोतिउर-रहमान इत्यस्य निर्देशनं अनुसृत्य जनपदस्य दश–थानानां त्रयाणां आरक्षक–चौकीनां बलैः सह मण्डला–नगरात् आहूतस्य विशेष–आरक्षक–बलस्य अपि १५० अधिक–सैनिका: नियुक्ताः। नगरीय–क्षेत्रेषु विशेष–चल–यानानि निरन्तरं गश्तं कृतवन्ति, मुख्य–चतुष।पथेषु बैरिकेट्स् स्थापयित्वा निरीक्षण-अभियानं सञ्चालितम्। कोतवाली–थानाध्यक्षः अरविन्दजैनः अवदत् यत् सुरक्षा–दृष्ट्या नगरीय–सीमायां भारयुक्त–यानानां प्रवेशः निषिद्धः कृतः, धूर्ता: मद्यपान–पश्चात् वाहन–चालकाः च आरक्षकस्य तीक्ष्ण–निरीक्षणे सन्ति। अस्य रंग–उत्सवस्य मध्ये कस्याश्चित् अपि अप्रिय–घटनाया: सूचना न प्राप्ता। प्रशासन–जनसहयोगेन समग्रे जनपदे होली–पर्व शान्तिपूर्णं भ्रातृत्वेन च आचर्यते स्म।

परस्परं रंग–गुलाल–लेपनपूर्वकं शुभाशय–विनिमयः

जैतहरी–क्षेत्रे अपि होली–महोत्सवः महता हर्षोल्लासेन आचरितः। प्रभाते जनाः वर्णान् गृहीत्वा गृहात् निर्गत्य परस्परं रंग–गुलालं लिप्तवन्तः। युवकाः मित्रैः सह नगर–भ्रमणं कुर्वन्तः दृश्यन्ते स्म, मार्गेषु बालकाः पिचकारिभिः आगच्छतां गच्छतां च जनान् वर्णैः सिञ्चन्तः स्म। अनन्तरं डफली–टिमकी–नादेषु जनाः नृत्यन्तः होली–गीतैः सह प्रमुदिताः। विशेषतः लघुबालकेषु महती उत्सुकता दृष्टा।

राज्यमन्त्री–सांसदाभ्यां सह होरियारैः होली–क्रीडा

कोतमा–नगरे अपि फाल्गुन–मासान्ते सतरङ्ग–वर्णवृष्ट्या होलिकायाः दहन–स्मरणेन च होलिका–महोत्सवः आचरितः। प्रभाते बालक–समूहाः मार्गेषु अवतरिताः, वृद्धाः अपि होरियार–समूहैः सह उत्सवं अनुभूतवन्तः। प्रदेशस्य कुटीर–ग्रामोद्योग–राज्यमन्त्री (स्वतन्त्र–प्रभार) दिलीपजायसवालः स्व–निवासे बिजुरी–नगरे होरियारैः सह सानन्दं होलीं अचरत्। धूर्ताणां नियन्त्रणार्थं आरक्षक–व्यवस्थाः सुदृढाः आसन्, अधिकारिणः वीथिषु भ्रमणं कृत्वा सुरक्षायाः निरीक्षणं कृतवन्तः। द्विदिवसीय–होली–कारणात् दिनद्वयं व्यवसायिक–प्रतिष्ठानानि पिहितानि आसन्।

पुष्पराजगढे सांसद–निवासे होली–मिलनम्

पुष्पराजगढ़े सांसद–निवासे सांसदेन हिमाद्रीसिंहया जनैः सह होली–क्रीडा क्रीडिता, सा जनान् गुलालेन लिप्त्वा होली–पर्वणः शुभाशया: अयच्छत्।

अमरकण्टके मन्दिर–परिसरे आशीर्वाद–प्राप्तिः

होलिका–पर्वणि अमरकंटक-नर्मदा-मंदिर–परिसरे नगरवासिनः धुरेडी–अनन्तरं मन्दिरं गत्वा आदौ मातुः आशीर्वादं प्राप्तवन्तः। ततः परस्परं रंग–लेपनं कृत्वा होली–शुभाशयाः अयच्छन्, सामूहिकं फाग–गायनं च अभवत्। अनन्तरं आगत–श्रद्धालुभ्यः भाङ्ग–प्रसादः अपि वितरितः।

हिन्दुस्थान समाचार / अंशु गुप्ता