झारखंडस्य राज्यपालो, मुख्यमंत्री नेता प्रतिपक्षश्च अददुः होल्याः शुभकामनाः, प्रदेशे सुख-शांत्योः कामनाम्
रांची, 04 मार्चमासः (हि.स.)। झारखंड राज्यस्य राज्यपालः संतोष कुमार गंगवार मुख्यमंत्री हेमंत सोरेन तथा प्रतिपक्षनेता बाबूलाल मरांडी सामाजिकमाध्यमे एक्स इति मंचे सन्देशं प्रेष्य प्रदेशवासिभ्यः होली पर्वणः हार्दिकाः शुभकामनाः अददुः। राज्यपालः संतोष क
फाइल फोटो राज्यपाल


मुख्यमंत्री फाइल फोटो


नेता प्रतिपक्ष बाबूलाल मरांडी


रांची, 04 मार्चमासः (हि.स.)। झारखंड राज्यस्य राज्यपालः संतोष कुमार गंगवार मुख्यमंत्री हेमंत सोरेन तथा प्रतिपक्षनेता बाबूलाल मरांडी सामाजिकमाध्यमे एक्स इति मंचे सन्देशं प्रेष्य प्रदेशवासिभ्यः होली पर्वणः हार्दिकाः शुभकामनाः अददुः।

राज्यपालः संतोष कुमार गंगवार स्वसन्देशे अवदत् यत् होली आनन्दस्य उल्लासस्य भ्रातृत्वस्य च प्रतीकः अस्ति। अयं रंगोत्सवः सर्वेषां जीवने नूतनां ऊर्जां सकारात्मकतां च प्रसारयतु इति तस्य मंगलकामना अस्ति।

मुख्यमंत्री हेमंत सोरेन अपि होली पर्वणः शुभकामनाः दत्त्वा अवदत् यत् एतत् पर्व प्रेम्णः परस्पर सौहार्दस्य सहजीवनस्य च सन्देशं ददाति। तेन उक्तं यत् होली अस्मान् सुखवितरणे सम्बन्धानां सुदृढीकरणे समाजे एकतां स्थापयितुं च प्रेरयति। मुख्यमंत्री कामनाम् अकरोत् यत् एषः शुभदिनः सर्वेषां जीवने सुखसमृद्धिं नूतनाशां ऊर्जां च आनयतु।

प्रतिपक्षनेता बाबूलाल मरांडी अपि राज्यवासिभ्यः होली पर्वणः शुभकामनाः अददात्। तेन उक्तं यत् रंगानां एषः उत्सवः सर्वेषां जीवने सुखं शान्तिं समृद्धिं च आनयतु तथा समाजे भ्रातृत्वभावनां अधिकं सुदृढां करोतु।--------------

हिन्दुस्थान समाचार