भाजपा–नेतृभिः प्रदेश–कार्यालये होली–उत्सवः उत्साहेन आचरितः
रांचीनगरम्, ०४ मार्चमास: (हि.स.)।होलिका–पर्वणि भारतीयजनता-पक्षस्य प्रदेश–कार्यालये भाजपा–नेतृभिः कार्यकर्तृभिः सह उत्साहपूर्वकं होलिका क्रीडिता, गुलालम् उड्डायितं च। परस्परं रङ्ग–गुलाल–लेपनं कृत्वा होलिकाया: शुभाशयाः दत्ताः, इति दृश्यं सर्वत्र दृष्
होली मिलन समारोह की तस्वीर


रांचीनगरम्, ०४ मार्चमास: (हि.स.)।होलिका–पर्वणि भारतीयजनता-पक्षस्य प्रदेश–कार्यालये भाजपा–नेतृभिः कार्यकर्तृभिः सह उत्साहपूर्वकं होलिका क्रीडिता, गुलालम् उड्डायितं च। परस्परं रङ्ग–गुलाल–लेपनं कृत्वा होलिकाया: शुभाशयाः दत्ताः, इति दृश्यं सर्वत्र दृष्टम्।

अस्मिन् अवसरे प्रदेशाध्यक्षः आदित्य साहू कार्यकर्तॄन् अभिनन्द्य स्वयं अपि होलिकोत्सवे सक्रियतया सहभागी अभवत्। झाल–मञ्जीर–वादनपूर्वकं गणस्य मध्ये नवीनजायसवाल: (हटिया–विधायकः) अपि सम्मिलितः; तस्य अपि होली–रङ्गः स्पष्टतया दृष्टः।

एतस्मिन् काले कार्यकर्तृभिः प्रदेशाध्यक्षस्य शाक–मालया स्वागतं कृतम्; तेन च झाल–वादनेन सह होली सम्यगाचरिता। पत्रकारैः सह संवादे प्रदेशाध्यक्षः आदित्य–साहू होली–शुभाशया: प्रदाय अवदत्— एतत् विशेषं पर्व, यस्मिन् क्रीडा, उल्लासः, परस्पर–प्रेमभावश्च समन्विताः सन्ति। प्रतिवर्षमिव अस्मिन्नपि वर्षे प्रदेश–कार्यालये कार्यकर्तृभिः सह सम्यक् होलिका क्रीडिता इति सः अवोचत्।

अस्मिन् अवसरे कर्मवीरसिंह: अपि भाजपा–कार्यकर्तॄभि: सह राज्यस्य जनताभ्य: रङ्गोत्सवस्य शुभाशया: दत्त्वा सुख–समृद्धेः कामनां कृतवान्। होली–रङ्गे बाबूलालमरांडी (नेता–प्रतिपक्षः) अपि रञ्जितः दृष्ट:। सः भाजपा–कार्यालये कार्यकर्तृभिः सह उत्साहेन होलिकां क्रीडित्वा जनेभ्य: शुभाशया: दत्त्वा अवदत्—एतत् पर्व दूरतान् नाशयति, समाजे च भ्रातृत्व–भावनां वर्धयति।

हिन्दुस्थान समाचार / अंशु गुप्ता