Enter your Email Address to subscribe to our newsletters

रांचीनगरम्, ०४ मार्चमासः (हि.स.)।राजधानीरांची-सहित संपूर्ण-झारखण्ड–राज्ये होली–पर्व बुधवासरे हर्षोल्लासेन तथा पारम्परिक–उत्साहेन आचरितम्। राजधानी–नगरं रांची–सर्वत्र होली–धूमेन एव आच्छादितम्। हटिया, डोरंडा, मेन–रोड, बरियातू, कोकर, खेल–ग्राम च इत्यादिषु स्थलेषु जनाः होलिकाया: आनन्दे मग्नाः दृष्टाः। जनाः आदिनं रङ्ग–क्रीडायाम् व्यस्ताः आसन् तथा परस्परं गृहं गत्वा पक्वान्नानां आनन्दं अपि लब्धवन्तः। अपराह्णे अनन्तरं जनाः अबीर–गुलाल–क्रीडां क्रीडित्वा एकस्मात् अन्यस्मै होली–शुभाशयाः प्रदत्तवन्तः।
सर्वे नगरस्य जनाः चलचित्र–सङ्गीत–गीतानां (उदा. “बलम पिचकारी जो तूने मुझे मारी”, “रंग बरसे भीगे चुनरवाली”, “पार्टी ऑल नाइट”, “लाल परी ओ लाल परी”, “होली आइ होली आइ”) ध्वनि–अनुरूपं नृत्यम् कृतवन्त:। केचन छात्राः वस्त्र–उत्पाटन–होलिका–क्रीडां कुर्वन्तः, केचन बालकाः पिचकारी–क्रीडायाम् संलग्नाः। खेलग्राम–फेज–वन-क्षेत्रे जनाः लघु–तडागं निर्मीय एकस्मिन् अन्यस्मिन् मज्जयित्वा होलिकाया: आनन्दं अनुभूतवन्त:। समाचारलेखनकाले अपि जनाः अबीर–लेपनं कृत्वा परस्परं होली–शुभाशयाः प्रदत्तवन्तः।कतिषु स्थानेषु रात्रौ विलम्बे अपि जनाः फगुआ–गीतं गीत्वा होली–महोत्सवम् आचरितवन्तः।
राजधानी–रांची–नगरस्य सुरक्षा–व्यवस्थाराजधानी–नगरं होली–पर्वण: दृष्ट्या आरक्ष–बलं पूर्णतया सतर्क–स्थितौ दृष्टम्। समग्र–जनपदे प्राय: ४००० अतिरिक्त–सैनिक–बलं सज्जितम्। एस.एस.पी. राकेशरंजन: सूचनां दत्तवान् यत् अतिरिक्त–आरक्षक–बलं समग्र–जनपदे सज्जितम्। रांची–जनपद–बलस्य अतिरिक्तं रैफ, रैप, होमगार्ड–सैनिकाः अपि नियुक्ताः। सर्वासु थानासु क्विक–रिस्पॉन्स–दलम् अपि सज्जितम्। संवेदनशील–क्षेत्रेषु विशेष–निरीक्षणं च आचर्यते। सर्वे थाना–प्रभारिण: स्वीय–स्वीय-क्षेत्रे पेट्रोलिंग- कुर्वन्तः आसन्।
एस.एस.पी. राकेशरंजन: उक्तवान् यत् नगरस्य हर्षोल्लासेन शान्तिपूर्वकं होलिका–पर्व पालितवन्त:। कुत्रापि कापि अप्रिय–घटना–सूचना न प्राप्ता।
हिन्दुस्थान समाचार / अंशु गुप्ता