मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादव: पूर्व–मुख्यमन्त्रिणः स्वर्गीय-वीरेन्द्रकुमार-सखलेचा–महोदयस्य जयन्त्यां तस्य स्मरणं कृतवान्
भोपालनगरम्, ०४ मार्चमासः (हि.स.) — मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादव: बुधवासरे पूर्व–मुख्यमन्त्रिणः स्वर्गीय-वीरेन्द्र-कुमार-सखलेचा–महोदयस्य जयन्त्यवसरे विधानसभायाः केन्द्रीय–सभागृहे तस्य चित्रे पुष्पाञ्जलिं समर्पितवान्। अस्मिन् अवसरे मुख्यमन
स्व.सखलेचा के चित्र पर  पुष्पांजलि अर्पित


भोपालनगरम्, ०४ मार्चमासः (हि.स.) — मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादव: बुधवासरे पूर्व–मुख्यमन्त्रिणः स्वर्गीय-वीरेन्द्र-कुमार-सखलेचा–महोदयस्य जयन्त्यवसरे विधानसभायाः केन्द्रीय–सभागृहे तस्य चित्रे पुष्पाञ्जलिं समर्पितवान्।

अस्मिन् अवसरे मुख्यमन्त्रिणा स्वर्गीय–सखलेचायाः पुण्य–स्मरणं कृत्वा उक्तं यत्— तेन स्वस्य सार्वजनिक–जीवने सादगी, सङ्घटनं प्रति अप्रतिम-निष्ठां, जनसेवायाः सर्वोच्च–प्राथमिकतां च प्रदर्श्य आदर्शः स्थापितः। पूर्व–मुख्यमन्त्रिणः स्वर्गीय–सखलेचायाः व्यक्तित्वं कृतित्वं च लोकहिते समर्पित–भावेन कार्य–करणस्य प्रेरणां ददाति। सः कुशलः सङ्घटनकर्ता आसीत्। मुख्यमन्त्रिणा तस्य तत्कालीन–कार्यकालस्य, तस्मात् प्राप्तायाः प्रेरणायाः, अन्येषां च संस्मरणानां उल्लेखः कृतः।

अस्मिन् अवसरे सहकारिता–मन्त्री विश्वास–कैलाश–सारङ्गः, पूर्व–मन्त्री ओमप्रकाश–सखलेचा, विधायकः रामेश्वर–शर्मा, सांसदः विष्णुदत्त–शर्मा, स्वर्गीय–वीरेन्द्र–कुमार–सखलेचायाः परिवारजनाः, जनप्रतिनिधयः, विधानसभायाः अधिकारिणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता